________________
श्रीवर्धमानसूरिविरचितं [स.२.६१८-६२९] त्रिजगवीरजननीर्जननी येन सूनुना। हसत्यस्ति स को ऽपीह यः पापात्पाति मामितः ॥६१८॥ स्वजन्मतिथिनक्षत्रवारान्धैर्येण गर्वयन् । स कोऽप्यस्ति जगत्यस्मिन् यः पापात्पाति मामितः॥६१९॥ प्रेमाभ्यः प्रियाभ्यो ऽपि ये प्रियां मन्यते युधम् । तन्मुख्यः कोऽपि किं नास्ति यः पापात्पातिमामितः॥६२०॥ हा हा हतो हतो ऽहं मां त्रातुं को ऽपि न धावति । तदाकाशे धृतं कस्य सत्त्वेनेदं जगत्रयम् ॥ ६२१ ॥ विश्वे न सन्ति किं वीराः किं वा सन्तो ऽपि नि:कृपाः । किं वा बाधिर्यभाजस्ते क्रन्दात यन्न पाति माम् ॥ ६२२ ।। निशि निद्रान्ति चेन्मास्तदमर्येष्वभूत्किमु ।। यत्ते ऽपि शक्तिमन्तो ऽपि न कृपां मयि कुर्वते ॥ ६२३ ॥ न मानवो न गन्धर्वो न गीर्वाणो न दानवः । को ऽप्यस्ति साहसी यो मां त्रायते हा हतो ऽस्मि हा॥६२४॥ अथाच्चचञ्चद्रोमाञ्चश्चण्डोषितमूर्धजः। क्ष्मापस्य मनुरुत्पश्यश्वालयंश्चापमुत्थितः ॥ ६२५ ॥ विलक्षः खेचरं क्षोणिचारी रक्षितुमक्षमः । पक्षिणो ऽपि क्षणं धन्यान्सो ऽमन्यत खगामिनः ॥६२६॥ त्रैलोक्ये ऽप्यस्ति न त्राता वध्यमानस्य ते मया । मा क्रन्दाम्रियमाणस्तदित्यभूत्वे पुनर्वनिः ॥ ६२७॥ हन्तुः स्वरानुसारेण शरासारं ततः कृती। । साक्षेपं दिवि चिक्षेप स शरण्याशिरोमणिः ॥ ६२८ ॥ एको रिपुः कृपाणेन प्रहतः प्रापतत्ततः। ... पुमान्कुमारनाराचताडितस्त्वपरः पुरः ॥ ६२९ ।।