________________
[स. २.६०४ - ६१७] वासुपूज्यचरितम्
१११
विधत्ते शुद्धधीः शीलसुधाम्भोनिधिमज्जनम् ।। ६०४ ॥ अघनाशाद्भुतच्छाये शीले नीलेतरा गुणाः । समायान्ति समुत्ताला मराला इव पल्वले ।। ६०५ ॥ जनानुरक्तिर्मुक्तिश्च मुक्तिश्च नृषु शीलतः । सनत्कुमारशृङ्गारसुन्दर्योरिव जायते ।। ६०६ ॥ धन्यपौरालिमालिनी ।
तथा सत्पथा श्रीकान्तेति पुरी जम्बूद्वीपे भारतवर्षभूः ।। ६०७ । इह सिंह इति स्वाम्यग्लपित ग्रुपतिर्नृपः । बभूव शुभ्रकीर्तित्रग्राजिराजित दिग्ग्णः ।। ६०८ ॥ नित्यमुद्यद्गुणग्रामः कलाग्रहकृताग्रहः । सनत्कुमार इत्यासीत्कुमारस्तस्य कीर्तिभूः ।। ६०९ ॥ अदूषणकणैर्लक्ष्यमाणस्तादृक्षलक्षणैः ।
सहोत्थैः स गुणै रेजे शरीरावयवैरिव ।। ६१० ॥ उपदेशावधिक्लेशाद्गुरुतस्तस्य गृहतः ।
हृदि न स्खलितं चक्रुः खिला अप्यखिलाः कलाः || ६११ || रूपं निशम्य निःसीम तस्य सीमन्तिनीजनैः । तदङ्गसङ्गिखुरलीरजो बहुमतं स्वतः ।। ६१२ ॥ उरसि प्रेयसां कामचित्राभ्यासापदेशतः । अलिख्यत विदग्धाभिः स रहो बिरोदये ।। ६१३ ॥ तस्मिञ्शरणसंप्राप्तप्राणभृद्वज्रपञ्जरे ।
दोर्दण्डमण्डलच्छायामीयुश्चापचराः शराः ।। ६१४ ।। सो ऽन्यदा क्षणदामध्ये वध्यमानस्य विद्विषा । निद्राणश्चन्द्रशालायां रावं शुश्राव कस्यचित् ॥ ६१५ ॥ अथैष रभसभ्रश्यन्निद्रोन्मुद्रदृगीदृशम् । खे वचः सचमत्कारः कारुण्यमसृणोऽशृणोत् ।। ६१६ ॥ दुःखितः परदुःखेन दीनानाथोद्धृतिक्षमः ।
अहो स कापि कोऽप्यस्ति यः पापात्पाति मामितः ||६१७॥