________________
११०
श्रीवर्धमानसरिविरचितं [स.२.५९२-६०३]
संतोषरसिकैर्लोकः स तु बीजं सुखस्य यत् ॥ ५९२ ॥ न सद्वाक्यात्परं वश्यं न कलायाः परं धनम् । नाहिंसायाः परो धर्मो न संतोषात्परं सुखम् ॥ ५९३ ॥ सेव्यसारस्य तस्यापि जननी विरतिध्रुवम् । सापि केवलिभिः प्रोक्ता सर्वतो देशतो ऽपि वा ।। ५९४ तदस्यां विरतौ सद्भिर्मतिमद्भिः सुखार्थिभिः । स्तुत्यकृत्यमहाविघ्नः प्रमादः कार्य एव न ॥ ५९५ ॥ आयुषः क्षण एकोऽपि नाप्यते रत्नकोटिभिः । तत्कथं हार्यते हन्त प्रमादरजसा नरैः ॥ ५९६ ॥
इति धर्मगिरं कर्मगिरिदम्भोलिसंनिभाम् । श्रुत्वा तत्त्वावबोधेन शुभः शस्यजनो ऽजनि ॥ ५९७ ॥ अन्तःपुर्यः सुबन्धुश्च तदा भेजुर्महाव्रतम् । यनैश्चान्ये जैनस्तत्र जगहे गृहिणां व्रतम् ॥ ५९८ ॥ इत्थं प्रबोध्य सुहृदो विहत्य वसुषां क्रमात् । वितत्य धर्म भगवान् रातिसारः शिवं ययौ ॥ ५९९ ॥ इत्यद्भुतस्य दानस्य प्रभावाद्भुक्तभूतलः । कुशलो दलयत्याशु संसारं रतिसारवत् ॥ ६००॥ इति श्रीरतिसारस्य सारपुण्यप्रथां कथाम् । निशम्याभून्मुदां सम पद्मोत्तरमहीश्वरः ॥६०१॥
पात्रेण पार्थिवादिभ्यो दानं नादीयते कचित् । नित्यं शीलन्तु शीलं तु सर्वसाधारणं बुधाः ॥ ६०२ ॥ धत्ते यः सततोन्मीलं शीलं लीलारविन्दवत् । सकामं मुक्तिकामिन्या कुतुकेन विलोक्यते ॥६०३ ॥ अतश्चिन्तामणिप्रायसुकृतप्राप्तये जनः ।