________________
[स.२. ५५७-५६८] वासुपूज्यचरितम्
. १०७ आयुश्चतुर्धा नरकतिर्यग्नृसुरसभंवैः । दुर्भेदबन्धभावेन तद्वनिगडोपमम् ॥ ५५७ ॥ आयुषः कर्मणो ऽमुष्य स्थितिरित्थं प्रकर्षतः । सागरोपमितीनां हि त्रयस्त्रिंशद्भवे भवेत् ॥ ५५८ ॥ नामोक्तं प्रथमं भेदैर्द्विचत्वारिंशता ततः।। सप्तवष्टया त्रिणवत्या व्युत्तरेण शतेन वा ॥ ५५९ ॥ गतिजातिशरीराङ्गोपाङ्गबन्धननामकम् । संघातनं संहननं संस्थानं वर्णगन्धने ॥ ५६० ॥ रसस्पशोगुरुलघु पराघातोपघातको । आनुपूर्वी तथोच्छास आतपोद्योतमित्यपि ॥५६१ ॥ विहायोगतिस्त्रसाख्यं स्थावरं सुक्ष्मवादरम् । अपर्याप्तं च पर्याप्तं प्रत्येकानन्तकायकम् ॥ ५६२ ॥ सुभगं दुर्भगं चैवं स्थिरास्थिरशुभाश भम् । . सुस्वरं दुःस्वरादेयमनादेयं ततः परम् ॥ ५६३ ॥ यश कीर्त्ययश कीर्तिनिर्माणं कीर्तितं ततः । नाम तीर्थकरं चैव चत्वारिंशद्वयाधिका ॥ ५६४ ॥ गतिश्चतुर्धा नरकतिर्यग्नृसुरलक्षणा । एकद्वित्रिचतुःपञ्चाक्षभेदैोतिपञ्चकम् ॥ ५६५ ॥ औदारिकं वैक्रियकमाहारकमतः परम् । तैजसं कार्मणं चेति शरीरं पञ्चधा स्मृतम् ॥ ५६६ ॥ अङ्गोपाङ्गं त्रिधा शीर्ष पृष्ठं च हृदयोदरौ । ऊरुद्वयं करद्वन्द्वमित्यष्यावङ्गमुच्यते ॥ ५६७ ॥ अङ्गुल्याद्यमुपाङ्गं स्यादङ्गोपाङ्गं च तद्गताः । रेखाः स्युस्त्रयमेतत्तु भवेदाये वपुस्त्रये ॥ ५६८ ॥