________________
१०८ श्रीवर्धमानसूरिविरचितं [स.२.५८९-५८०]
पोढा संहननं वर्षभनाराचमादिमम् । तस्माद्वषभनाराचं नाराचं तु तृतीयकम् ॥ ५६९ ॥ चतुर्थमर्धनाराचं कीलिकाख्यं च पञ्चमम् । सेवावर्त भवेत्षष्ठमस्थ्यन्तःस्पर्शलक्षणम् ॥ ५७० ॥युग्मम्।। आद्यं समचतुरश्रमथ न्यग्रोधमण्डलम् । तदन्यथा पुनः सादि वामनं कुब्जकं तथा ५७१ ॥ हुण्डं चेति शरीरस्य संस्थानानि भवन्ति पर । एतान्यौदारिकस्यैव नान्याङ्गानामसंभवात् ॥५७२॥युग्मम्।। आनुपूर्वी चतुर्धेत्थं यज्जन्तोर्गच्छतो ऽन्तरा । भवेषु नरकायेषु परिपाटिर्भवेद्गतेः ॥ ५७३ ॥ स्याद्विहायोगतिर्द्वधा शुभाशुभविभेदतः। उपघातपराघातातपागुरुलघु स्मृतम् ॥ ५७४ ॥ उच्छ्वासोधोती चस्वारो वर्णाधास्त्रसविंशतिः । निर्माणं तीर्थकृञ्चेति सप्तषष्टिरुदाहृता ॥ ५७५ ॥ बन्धनं पञ्चधा पञ्च संघाता वर्णपञ्चकम् । अष्टौ स्पर्शा रसाः पञ्च गन्धद्वयमुदीरितम् ।। ५७६ ॥ कृष्णो वर्णेषु स्पर्शेषु गुरुस्तिक्तो रसेषु च । गन्धयोः सुरमिश्चैते भेदास्त्याज्याः पुरोदिताः ॥ ५७७ ॥ प्रागुक्तायाः समषष्टेरस्याः षड्विंशतेरपि । मेलने जायते सेयं नवतिविभिरुत्तरा ॥ ५७८ ॥ पञ्चदशवन्धनेभ्यः पञ्च भेदा पुरोदिताः । शेषैस्तु दशमिः क्षिप्तैर्जायते व्युत्तरं शतम् ॥ ५७९ ॥ औदारिकौदारिककं तथौदारिकतैजसम् । औदारिककार्मणकं तुर्यमेतत्रयोद्भवम् ॥ ५८० ॥