________________
श्रीवर्धमानसूरिविरचितं [स.२.५४५-५५६ ]
अवस्थितिरमुष्यापि वेदनीयस्य कर्मणः । सागरोपमितीतां हि स्युस्त्रिंशत्कोटिकोटयः ।। ५४५ ॥ मोहनीयं भवेद्वेधात्राद्यं दर्शनमोहकृत् । चारित्रमोहनीयं तु द्वितीयं परिकीर्तितम् ।। ५४६ ।। प्रथमं त्रिविधं सम्यम्मिश्र मिथ्यात्वभेदतः । द्वितीयं पञ्चविंशत्या भेदैस्तदिति कीर्त्यते ।। ५४७ ॥ क्रोधमानमाया लोभाः स्युः कषायाश्चतुर्विधाः । तत्रैकैकश्चतुर्भेदैर्ज्ञेयः संज्वलनादिभिः ॥ ५४८ ॥ पक्षस्थायी कषायो ऽसौ स्मृतः संज्वलनाह्वयः । प्रत्याख्यानः पुनर्मासचतुष्टयकृतस्थितिः ।। ५४९ ।। अप्रत्याख्यानकः प्रोक्तः स्थितः संवत्सरावधिः । यावज्जीवं कृतस्थानः स्यादनन्तानुबन्धकः ॥ ५५० ॥ अन्त्यमी वीतरागत्वं यतित्वं श्राद्धतां क्रमात् । सम्यक्त्वमपि संसेव्यमाना जन्तोर्भवान्तरे ।। ५५१ ॥ अमरत्वं मनुष्यत्वं तिर्यक्कं नरकं क्रमात् । यच्छन्त्येिवस्वरूपास्ते कषाया इति षोडशः ।। ५५२ ।। तथा हासो भयं शोको जुगुप्सा रत्यरत्यपि । पुंनारीक्लीववेदाच नोकषाया इमे नव ।। ५५३ ।। इत्यष्टविंशतिर्भेदा मोहनीयस्य कर्मणः । भयात्मनामपि प्रायो दुर्जराः स्युचिरं स्थिराः || ५५४॥ मद्यपानाद्यथा जन्तुः कृत्याकृत्यानि वेत्ति न । मोहनीयादपि तथा तत्तन्मयसमं विदुः ।। ५५५ ॥ तत्तदेतस्य कर्मभ्यः सर्वेभ्यो ऽप्यधिका स्थितिः । भवेयुः सागराणां हि सप्ततिः कोटिकोटयः ।। ५५६॥
१०६