________________
[स.२. ५३३-५४४] वासुपूज्यचरितम्
तत्र निद्रा भवेद्यत्र प्रबोधः स्वल्पहेतुना । निद्रानिद्रात्मनो यस्यां भवेदुःखेन जागरः ॥ ५३३ ॥ ऊर्ध्वस्थितस्य जायेत या जन्तोः प्रचला हि सा । प्रचलाप्रचला सा तु भवेद्या पथि गच्छतः ॥ ५३४ ॥ चिन्तितस्यादि कार्यस्य स्त्यानद्धिः साधका निशि । सा पुनर्जायते जन्तोरुदये क्लिष्टकर्मणः ॥ ५३५ ॥ चक्षुरात्रियते येन तच्चक्षुर्दर्शनादृतम् ।। शेषेन्द्रियाणां वरणमचक्षुर्दर्शनातम् ॥ ५३६ ॥ अवधिः स्याद्रूपिवस्तुमर्यादा तेन दर्शनम् । करणानपेक्षो बोधरूपो वावधिरुच्यते ॥ ५३७ । . दर्शनं तेन सामान्यार्थग्रहो ऽवधिदर्शनम् । तस्यावरणमवधिदर्शनावरणं स्मृतम् ॥ ५३८ ॥ विश्वं केवलसामान्य लोकालोकस्य दर्शनम् । यदाणोति तत्प्रोक्तं केवलदर्शनावृतम् ॥ ५३९ ॥ यथा राज्ञः प्रतीहारो नाभीष्टस्य जनस्य सः । अपि वीक्षितुकामस्य न दत्ते नृपदर्शनम् ॥ ५४० ॥ दर्शनावरणीयेन रुद्धो जीवो ऽप्यसौ तथा । न पश्येद्वस्तु तत्तेन प्रतीहारसयं विदुः ॥ ५४१ ॥ युग्मम्।। समवस्थितिरस्यापि दर्शनातिकर्मणः। सागरोपमकोटीनां स्युस्त्रिंशत्कोटयः क्रमात् ॥ ५४२ ॥ सातासाताभदा वेद्यं द्विधा मुख्यं तयोः पुनः । असातं तिर्यग्नरके सातं मामरालये ॥ ५४३ ॥ मधुलिप्तासिधाराया लेहने सुखदुःखकृत् ।