________________
श्रीवर्धमानस्रुरिविरचितं [स.२.५२१-५३२]
उत्पेदे केवलं लोकत्रयत्रैकाल्यदर्पणः ।। ५२१ || दत्तं शासनदेव्यैष मुनिवेषं समाश्रितः । तयैव विहिते तत्र काञ्चने ऽब्जे कृतासनः ॥ ५२२ ॥ त्वरायातैः सुरत्रातैः प्रणतः पुष्पवर्षिभिः । किमेतदिति सार्यैः प्रेक्ष्यमाणः पुरीजनैः ।। ५२३ ॥
अन्तःपुरीभिरेताभिरुद्धान्तस्वान्तवृत्तिभिः । किमेतन्नाथ नाथेति मुहुरुत्तरमर्थितः ।। ५२४ | दशनांशुमिषात्पुण्यं मूर्तिमत्तन्वतीमिव ।
१०४
स जिनो वृजिनोच्छेदावेशिनीं देशनां व्यधात् ।। ५२५ ।। चतुर्भिः कलापकम् ॥
अहो महोद्धतैरेव भवसेवकजन्तवः । कर्मभिर्मर्मभिद्रूपैस्ताप्यन्ते सर्वथा कथम् ।। ५२६ ।। तानि जानीत हे सन्तः संगतानि सदात्मभिः । अष्टसंख्यानि संसारकारणं नामभेदतः ॥ ५२७ ॥ ज्ञानावरणं दर्शणावरणं वेदनीयकम् । मोहायुर्नामगोत्रान्तरायं तानीति नामतः ।। ५२८ ।। मतिश्रुत्यावधिमनः पर्यायकेवलाभिधैः ।
आवृतैः पञ्चभिर्ज्ञानैराद्यं पञ्चविधं स्मृतम् ।। ५२९ ॥ निर्मलापि यथा दृष्टिः पटच्छन्नाल्पदृश्वरी । तथात्माच्छादितस्तेन तत्तत्पटसमं विदुः ॥ ५३० ॥ सागराणां स्थितिस्तस्य स्यास्त्रिंशत्कोटिकोटयः । ततो बात तत्कर्म पुनरात्मा सकल्मषः ।। ५३१ ॥ दर्शनावरणीयं तु नवभेदैरिति स्मृतम् । पञ्चनिद्राश्च चत्वारः स्युश्चक्षुर्दर्शनादयः ।। ५३२ ।।