SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [स.२. ५१०-५२०] वासुपूज्यचरितम् १०३ इति ध्यात्वा बिरागोर्मिवर्मितस्वान्तवाधिना । नृपेण स्वकरेणास्याः क्रमाद्भूषाभरो हृतः॥५१०॥ ततो हृतशिरोरत्नां निशि निर्दीपसद्मवत् । आकृष्टकुण्डलद्वन्द्वां द्यामिवास्तेन्दुभस्कराम् ॥ ५११ ॥ गतहारां सुरागारद्वारं निस्तोरणामिव । अकेयूरभुजां लूनपोर्मिसरसीमिव ॥ ५१२ ॥ अकङ्कणकरां वल्लिमुक्तक्षा वनीमिव । कणन्मञ्जीरहीनांह्निमहंसाब्जामिवाब्जिनीम् ॥ ५१३ ॥ एवं निरस्तनिःशेषभासमानविभूषणाम् । दलपुष्पफलत्यक्तां फाल्गुनीयां लतामिव ॥ ५१४ ॥ तां पश्यन्नान्तरेणाक्ष्णा स दध्यौ नास्ति कुत्रचित् । अप्रक्षालितशुद्धाङ्गः को ऽप्यभूषितभासुरः ॥ ५१५ ॥ पञ्चभिः कुलकम् ॥ का वान्यस्य कथात्मापि धौतकर्मावलीमलः । ज्ञानदर्शनचारित्रै ति रत्नैरलंकृतः ॥ ५१६ ॥ तदस्मिन्कर्ममलिने यत्परिष्करणं तनोः । विगुप्तपश्चाद्भागं तन्मयूरस्येव नर्तनम् ॥ ५१७ ॥ नाङ्गस्य भूषणैरात्मा भूष्यते ऽस्य तु भूषणैः । भूष्यते ऽखिलमप्यङ्गं नमो ऽस्य करैरिव ॥ ५१८ ॥ तत्कार्यः काममात्मायमकर्ममलमण्डलः । ज्ञानदर्शनचारित्रभूषणः कायभूषणः ॥ ५१९ ॥ इत्यन्तायतस्तस्यात्मनि स्थिरतरं मनः। अदीप्यतं यथा दीपो निर्वाते वेश्मनि स्थितः ॥ ५२० ॥ शुक्लध्याने ऽवतीर्णे ऽथ घातिकर्मेन्धनानले ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy