________________
१०२ श्रीवर्धमानसूरिविरचितं [स.२.४९८-४०९] rere......... ..............
पान्थन्दखिदामात्रजायुभिर्वायुभिर्ववे । ददौ सरः कृषिफलं काले वारि च वारिदः॥ ४९८ ॥ सकृत्सित्तापि विस्फारं पफाल सरसा रसा। तमाशममितं चांशुस्तोमं व्योममणिय॑धात् ।। ४९९ ॥ इति प्रभावमुद्भाव्य रतिसारस्य भूपतेः।। सर्वे ऽप्युर्वीभृतः स्वो| तस्यैवाज्ञामवर्तयन् ॥ ५०० ॥ सुभूमस्तत्पिताप्येवं श्रुत्वा माहिष्मतीपतिः। स्वदेशे न्यस्य तस्याज्ञां हृष्टो ऽमुत्रहितं व्यधात् ॥५०१॥ तस्याज्ञा यत्र यत्रेन्दोः कौमुदीव स्फुटाभवत् । न तापतमसां भूमिः सा सा भूमिरजायत ॥ ५०२ ॥ इति क्रमादशेषायां क्ष्मायां तच्छासनस्पृशि । वभूव धर्मनिर्माणे ऽलंकर्मीणो ऽखिलो जनः ॥ ५०३ ॥ इत्यशेषां स्मितामेष चिरकालमपालयत् । प्रदत्तनरकद्वार भनस्वर्गार्गलं भुवम् ॥ ५०४ ॥ कदापि कौतुकागारे प्रियाणां तिसृणां मुखम् । विलोकयन्नयं प्राप कामं कामपि निदे॒तिम् ॥ ५०५ ॥ इन्दुहृद्ये मुखे भाति चान्दनं चित्रकं न ते । विलुप्यं तन्वि तेनेदं कुर्वे कस्तूरिकामयम् ॥ ५०६ ॥ इत्युक्त्वा सात्त्विकस्वेदजला रङ्गुलीदलैः । भूपो लुलोप सौभाग्यमञ्जयो वर्यकान्ति तत्॥५०७॥युग्मम्।। अथापतिलका तारशुङ्गारपसरापि सा । अस्तेन्दुः स्फारतारापि रजनीव रराज न ॥ ५०८ ॥ पुण्ड्रेणैकेन हीनापि यन्निःश्रीकेयमीक्ष्यते । तद्विराजिष्यते कीदृग्मुक्तनिःशेषभूषणा ॥ ५०९ ॥युग्मम्।।