________________
[स. १.४८६-४९७] वासुपूज्यचरितम्
अभ्यर्थितो ऽयमाश्लिष्य दिवः प्राक् च्यवता मया । उद्धर्तव्यस्त्वया सो ऽहं भवे मोहार्णवादिति ॥ ४८६ ॥ तन्नूनममुनैवाहं घटयित्वेति नाटकम् । बोधितो बोधदुग्धानामन्धुना बन्धुनावुना ॥ ४८७ ॥ इत्युत्थाय मया प्रीत्या सत्कृतः स तिरोभवत् । अहं च प्रात्र मङ्क्ष भवारण्यं विलवितुम् ॥ ४८८ ॥
ईदृक्चरित्रश्रवणाद्भभवभीतो भुवः पतिः । राज्ये जामातरं न्यस्य व्रतव्रततिभूरभूत् ॥ ४८९ ॥ नृपे विरतिसारे ऽथ रतिसारेण भूभुजा । व्योमेव व्योमरत्नेन तेन राज्यमराज्यत ॥ ४९० ॥ नृपाज्ञाकृजनध्वंसी नृपध्वंसीव दीव्यति । निरायुधं वधं राज्ञामाज्ञाभङ्गं विदुर्विदः ॥ ४९१ ॥ तन्मल्लोकगृहां सद्यो विपदो महहामिव । भविष्यन्तीति देशान्तस्तेनातायत डिण्डिमः॥४९२॥युग्मम्।। तत्तत्पुण्यप्रभावेण तदैवोद्गच्छदापदः । देशे तस्य परार्तिभ्यो विन्यवर्तन्त जन्तवः ॥ ४९३ ॥ संर्वा अपि स्त्रियः सत्यः सत्यवाक्सकलो जनः । मलिम्लुचो न च कापि कापेयं न च कस्यचित् ॥ ४९४ ॥ अपि केलीषु नो बालैरुत्तालैः कलहायितम् । युवभिः स्नेहद्रोहो ऽपि कलहो गलहस्तितः ॥ ४९५ ॥ तिर्यञ्चो ऽपि विषाणायैनं चक्रुः कस्यचिद्यथाम् । आत्मभोगास्पदं रोगा न च किंचिदतन्वत ॥ ४९६ ॥ न को ऽप्यास्कन्दि माद्यद्भिर्व्यन्तराद्यैरपि कचित् । चुल्लीन्धनेष्वपि ज्वालाजिह्वो मर्यादया ज्वल ॥ ४९७ ॥