________________
श्रीवर्धमानमूरिविरचितं स.२.४७४-४८५]
पतत्यथ तदखार्ते गजे क्षीणाखिलायुधः । अत्यन्मुष्टिमुत्लुत्यागमं तदिभमूर्धनि ॥ ४७४॥ धृत्वाथ हस्तयोस्तेन क्षिपन्पादाहतीरहम् । उत्क्षिप्तः पतितो दूरे यन्त्रोत्थग्रावगोलवत् ॥ ४७५ ॥ सहसा सह सेनाभिः प्राविशन्मत्पुरं स तत् । तन्वन्साकं तयोत्तालहस्ततालः कथा मिथः ॥ ४७६ ॥ एवमालोकमानो ऽहमपमानोच्चयाकुलः। इष्टमिष्टतमेभ्यो ऽपि गणयन्मरणं तदा ॥ ४७७॥ यद्यस्ति सुकृतं किंचिन्मम तत्तन्निदानतः। मा भूद्भवान्तरे ऽपि स्त्रीसङ्गः सत्पथभङ्गकृत् ॥ ४७८ ॥ इत्यालपन्पुरः प्रेक्ष्य कूपं तत्र पपात च । समान्तर्भद्रपीठस्थं स्वं ददर्श च पूर्ववत् ॥ ४७९ ॥ ये युधि क्रुधि दुर्धषाः क्षताः प्रपतिता मृताः । तानक्षतानहं संसद्यपश्यं पावेतो भटान् ॥ ४८० ॥ ये दृष्टाः संगरे पिष्टास्तेषामशृणवं रवम् । हस्तिनां हस्तिशालासु वाजिशालासु वाजिनाम् ॥ ४८१ ।। अन्तरन्तःपुरं यावत्क्षिप्ता दृक्तावदैत्यत ।। तदालिमाला तादृक्तत्प्रतिकर्मक्रियोन्मुखी ॥ ४८२ ॥ इत्यद्भुतधुतस्वान्ते मयि कान्तेन तेजसा । अर्क कर्करयन्कश्चिदाविरासीत्पुरः सुरः॥ ४८३ ॥ तद्विलोकादहं जातजातिस्मृतिरचिन्तयम् । प्राग्जातौ धनधन्याख्यौ सुहृदावहमेष च ॥ ४८४ ॥ अनेन सह संसारनिःसारत्व विचारवान् । प्रताभिरर्गलस्वर्गलक्ष्मीभोगमुपार्जयम् ॥ ४८५॥