________________
[स. २. ४६२ - ४७३] वासुपूज्यचरितम्
ततो ऽन्तरस्फुरताविर्भूताद्भुतवैरयोः । मम तस्य च सेनाभिः समरः समवर्तत ।। ।। ४६२ ॥ मिथो रथो रथं नागं नागो ऽश्वो ऽश्वं भटं भटः । समियाय समीका स्वकायव्ययनिर्भयः ।। ४६३ ।। समनयत कोदण्डैः ङ्गदण्डैर कम्प्यत । तत्र रौद्रे रणोद्रेके न शौर्योद्भटैर्भटैः ॥ ४६४ ॥ वपुषो निखिलस्यापि शक्त्या मुष्टिमविष्टया । दृढयन्तः प्रहरणान्यहितान्प्राहरन्भटाः || ४६५ ॥ तादृग्युद्धश्रिया धन्यंमन्यो मन्योर्वशं गतः । प्रहारेषु लगत्स्वङ्गं भटः कण्टकितं दधौ ॥। ४६६ ।। विलुउत्तररात्रातं पतन्मातङ्गमण्डलम् । त्रुटच्छक संघ नवन्धं नृत्यत्कबन्धकम् ॥ ४६७ ॥ लोलकीलालकल्लोलमालिनीमण्डलं ततः । पक्षक्षयकरं प्रावर्धत रणक्षणम् ।। ४६८ ॥ युग्मम् ॥ भ्राजिष्णुभूरितेजस्कैः क्रमान्मत्पृतनाः परैः । कर्शयामासरे ग्रीष्मवासरैरिव रात्रयः ।। ४६९ ।। राजवाह्यमथारु जवादिभविभुं विभीः ।
;
अहं तेन सह क्रुद्धो द्वन्द्वयुद्धोत्सुको मिलम् || ४७० ॥ मयि मुञ्चति नाराचवीचीर्दक्षेण रक्षितः । तेनात्मा च गजेन्द्रश्च तलवर्गश्च मागणः || ४७१ ॥ स तु निर्नाशयामास मार्गणानां गणैः क्षणात् । मद्वलं सकलं भानुर्भचक्रमिव भानुभिः || ४७२ ॥ यद्यदत्रं मयामोचि तत्तदेष क्षणादपि । छेकश्चिच्छेद सधस्कं भवत्कर्मेव केवली ।। ४७३ ॥
९९