________________
-९८
श्रीवर्धमानमूरिविरचितं [स.२.४५०-४६१]
विश्वासघातनों मौलिरत्नं जानामि योषितः । नरकाब्धो नरं प्रेम्णा परिरभ्य क्षिपन्ति याः ॥ ४५० ॥ अबला इति न स्त्रीभिः कर्तव्यं हस्तमेलनम् । हरन्ति जीवितं पुंसां संशये च क्षिपन्ति याः॥ ४५१ ।। इयं हि मम रक्तस्य प्रतीचीव विवस्वतः । मानम्लानिं ददौ कां तु गतिं दातेति वेत्ति कः ॥ ४५ ॥ धिग्मामेतद्वशित्वेन शिवोदयनिरादरम् । घूकनेत्रमिव ध्वान्तमित्रत्वेनार्कनिःस्पृहम् ॥ ४५३ ॥ एतद्वैराग्यतो नैतद्वैरं मुञ्चे ऽधुना पुनः । कुलस्यापि कलङ्क: स्यादपमानो हि मानिनाम् ॥ ४५४॥ यः प्रदत्ते हृदि पदं तमूर्ध्व गिलति क्षणात् । अपमाने ऽप्यनुद्योगी पङ्कादप्यधमः पुमान् ॥ ४५५ ॥ क्षुद्रोऽप्युपद्रवं कुर्यानिकाममपमानितः। विदधुर्मधुहार विधुरं मधुमक्षिकाः ॥ ४५६ ॥ गृह्णन्तं रससर्वस्वं भास्वन्तं प्रत्यपक्रियाम् । कांचित्कर्तुमशक्तस्य पङ्कस्यापि स्फुटत्युरः ॥ ४५७॥ दूरे त्यजति मातापि परावज्ञासहं नरम् । . क्षममप्यक्षमैर्बद्धं गर्ज विन्ध्याटवी यथा ॥ ४५८ ॥ तदेतस्यापमानाब्धेः पारं गत्वासिनौकया। संसारार्णवपाराय भजिष्ये पोतवद्वतम् ॥ ४५९ ॥ अपमाने ऽपि चेद्गुढे व्रतं तन्मे निदर्शनात् । मत्पूर्वेषामपि भवत्येषा संभवना व्रते ॥ ४५० ॥ यावदित्युद्धतध्यानस्त्यानचित्तो ऽस्मि युद्धधीः । सैन्यसर्वाभिसारेण मन्मन्त्री तावदागमत् ॥ ४६१ ॥