________________
[स.२. ४१४-४२५] वासुपूज्यचरितम्
हृवर्तिभिः कलुषितं श्रुतं मे क्षारहारि यैः ॥ ४१४ ॥ किममुष्या मुखं नेन्दुयल्लीलामीलितं मम । विवेकमब्जवद्वीक्ष्य हंसगौरैर्गतं गुणैः ॥ ४१५ ॥ अस्या नीलाब्जसदृशो दृशो नित्यवृतस्मिताः। . शंसन्ति तत्त्वविज्ञानभानुमस्तमितं मयि ॥ ४१६ ॥ अधरो मधुमाधुर्यधुर्यो ऽस्या यद्वशं भृशम् । प्रमत्तं मन्मनो ऽमुञ्चन्दूरतः सूरयो रयात् ।। ४१७ ॥ एतस्याः कम्बुवत्कण्ठो गम्भीरमधुरस्वरः। कृत्स्नानां मम कृत्यानां प्रयागायैवं कल्पितः ॥ ४१८ ॥ अप्येतन्मृदुदो लपाशबद्धं निजं मनः । नाहं मोचयितुं शक्तो धिगसारनराग्रणीः ॥ ४१९ ॥ लीलयैव विलड्डे ऽहमहो भवमहाटवीम् ।। तस्यामस्यास्तु दुर्लको वेणिदण्डो हृदापि मे ॥ ४२० ॥ सर्वतो ऽपि भवाम्बोधिः सुतरः सुतरामसौ । इहैतन्नाभिगम्भीरावर्तबन्धस्तु दुस्तरः ॥ ४२१ ॥ एतत्सिञ्जानमञ्जीरगतचित्तस्य विस्मृता। हंसस्येवामलौ पक्षौ धिग्ममोर्ध्वगतिक्षमौ ॥ ४२२ ॥ इत्यादिध्यानसंलीने मयि स्वं निन्दति स्वयम् । अपठन्मातरुत्ताल वरं वैतालिका बहिः ॥ ४२३ ॥ निद्रा नरेन्द्र मुश्चाशु बोधस्य समयो ह्यसौ । हन्तुं तमो ऽभ्ययाद्भानुः संमोहमिव सद्गुरुः ॥ ४२४ ॥ एनामुपश्रुतिं मुक्तिसूचिनी बन्दिनां गिरम् । स्वप्नसंवादिनी जान मानन्दमहमासदम् ॥ ४२५ ॥ क्षणे ऽस्मिञ्जाग्रती साग्रे प्रेक्ष्य मां प्रथमोत्थिम् ।