________________
श्रीवर्धमानमसिविरचितं [स.२.४०२-४४३] आक्रष्टुं न क्षमो ऽभूवं पङ्कमनमिव द्विपम् ॥ ४०२ ॥ लग्नं तस्यां तथा प्रेमवज्रलेऐन मन्मनः । न यथाकर्षि राज्यश्रीधुरीणैरपि वारणैः ॥ ४०३ ॥ तस्यामुच्छृङ्खलं कामपिशाचेन मनो मम । गृहीतं हन्त नामोचि मन्त्रज्ञैरपि मन्त्रिभिः ॥ ४०४ ॥ तदेकायत्तचित्तस्य राज्यश्रीरीjया मम । परहस्तं यती तस्थौ वृद्धामात्यहिया हृदि । ४०५ ।। मानसे मानसेविन्या तया नित्याश्रिते ऽविशन् । . स्त्रीसंघभयेनेव न धर्मगुरवो ऽपि मे ॥ ४०६ ॥ । इत्यनन्यमना धन्यंमन्यस्तन्न्यस्तलोचनः । अमन्ये मान्मथं पर्व निर्वाणपदमप्यदः ॥ ४०७ ॥ अन्यदा मदनानन्दरसनिद्रावशंवदः। स्वमपश्यमहं स्वमे मुक्तागिरिशिरश्वरम् ॥ ४०८॥ तस्यामुन्निद्रनिद्रायामुनिद्रो ऽहं तदा.हदा। अचिन्तयमिदं चिन्तान्तरावसरशालिना ॥ ४०९ ॥ स्वमः सर्वोत्तमस्तावन्मुक्तेर्लाभं दिशत्यसौ । किं तु कान्तावशहृदः क तत्संभावनापि मे ॥ ४१० ॥ किंकुर्वत्काञ्चना कान्तिस्तृणन्मत्तगजा गतिः। दासदश्वा दृगुल्लासाः कर्करन्मणयो नखाः ॥ ४११ ॥ चेटत्कर्पूरकस्तूरिमुख्यगन्धो मुखानिलः । यस्या रेणुकणदिव्यदुकूला दशनद्युतिः ॥ ४१२॥युग्मम्।। युक्तं तयैकया हृन्मे राज्यभोगे श्लथीकृतम् । एतद्भोगं श्लथीकर्तु को ऽभ्युपायो ऽस्तु मे ऽधुना ॥४१३॥ किमस्या न महानीललीलां दधतु कुन्तलाः ।