________________
९६
श्रीवर्धमानसुरिविरचितं [स.२.४२६-४३७]
•
हीनम्रास्या वचः किंचिनोचे मयि चटूचितम् ।। ४२६ ॥ अगाधबोंधिदुग्धाब्धिसंमुखान्तरचक्षुषा । समभाषि मयाप्येषा न किंचिन्नर्मभाषया ॥ ४२७ ॥ अथाग्रभागमागत्य प्रणिपत्य च मां मुदा । व्याजहार प्रतीहारी हारीकृतरदद्युतिः ।। ४२८ ॥ देव विज्ञपयत्येवममात्यो मतिसागरः । चिराद्भवन्मुखालोककौतुकी सेवको जनः ।। ४२९ । इति तद्वचनान्ते ऽहं नित्यप्रत्यूषकृत्यकृत् । सेवितां सेवकस्तोमैः सभाभुवमभासयम् ।। ४३० ॥ ततः प्रणमतः सर्वानुवनाथान्निरूपयन् । वीक्ष्य कस्यापि हस्ते जे तामब्जदृशमस्मरम् ।। ४३१ ।। वचोवीची पीयूषसधीचीषु मनीषिणाम् । तदा तद्विरहोतं न रेमे तत्र मे मनः ॥ ४३२ ॥ उत्कः क्षिपाम्यहं चक्षुर्यादन्तःपुरं प्रति । तावच्चारुतनुं कचिदुदञ्चदतुलघुतम् ॥ ४३३ || गाढग्रन्थिपरीधानं कटिवेष्टोत्तरीयकम् । अंसलम्बितनिस्त्रिंशमुरोबद्धासिधेनुकम् ॥ ४३४ ॥ विभ्राणं दक्षिणे पाणौ ताम्बूलदलमण्डलीम् । वामे तया तु हर्षिण्यां कृतहस्तावलम्बनम् ॥। ४३५ ।। चक्षुषाधैर्यधुर्येण पश्चन्तं मामवज्ञया ।
नरं निरूपयामास निर्गच्छन्तं द्रुतैः पदैः ।। ४३६ ।।
चतुर्भिः कलापकम् ॥ क एष के नयत्येतामिति कोपारुणेक्षणम् । मामित्यूचे हसन्ती सा तं स्थिरीकृत्य सत्वरम् ।। ४३७॥