________________
[स.२.३६७-३७८] वासुपूज्यचरितम्
भाग्ये भोग्यस्य तुल्ये ऽपि स्त्रीत्वं तेषामिदं ततः॥ ३६७ ॥ त्रयणां हृदयं तेषामजाननन्नदानकृत् । आहारस्यान्तरायेण त्रिदिनं दुःखभागभूः ॥ ३६८ ॥ अर्धाहारे मुनीन्द्राय दत्ते यत्ते पुरस्तदा । कुमार त्वं कृपाधारःक्षुधातापिषु नापरः॥ ३६९ ॥ इति स्तुतिवचोभङ्गया क्षुधात स्वं निवेदयन् । अल्पेतरान्नदानस्य निषेधं क्षत्रसूळधात् ।। ३७० ॥ सुबन्धोरर्धभुक्तैव तेन श्रीमुखतच्युता । पक्षिणः फलवत्स्फारं विषादं ददती हृदि ॥ ३७१ ॥
त्रिभिर्विशेषकम् ॥ यद्भवद्भिर्भवभ्रंशक्रमप्रथमसाधकम् । चक्रे विरुग्मुनेरङ्गं तद्वो रूपर्खिरीदृशी ॥ ३७२ ॥ त्वमपश्यः पुरा दृष्टया यदुष्टानप्यदुष्टया । त्वया कालमुखात्कृष्टा यत्पाज्या हन्त जन्तवः ॥ ३७३ ॥ तत्त्वां प्रत्यधुना को ऽपि विरोधं विदधाति न । ये च किंचिद्विरुध्यन्ते दधते युधि ते ऽन्धताम् ॥ ३७४ ।।
युग्मम् ॥ ददाति देहिनां पुण्यं कानि कान्यद्भुतानि न । अपि देवा यदेवाप्य भवन्त्याश्चर्यभूमयः ॥ ३७५ ॥
एवं प्राग्भवमाकर्ण्य रतिसारे रतिस्पृशि । भूपो भक्तिनमन्यौलिरित्यपृच्छन्मुनिप्रभुम् ॥ ३७६ ॥ लक्षणानि निरीक्ष्यन्ते क्षोणिरक्षाक्षमाणि ते । अद्यापि चारुतारुण्यो भगवन्भासते भवान् ॥ ३७७ ॥ वयसीह ततस्तप्ततरुणीकरुणोचिते । अपि राज्यमभित्यज्य किमात्मा तपसे ऽर्पितः ॥ ३७८ ॥