________________
९.
श्रीवर्धमानसूरिविरचितंस. [२.३५५-३६६ ]
कुमारं समुहद्वारं नगराय निनाय तम् ।। ३५५ ॥ युग्मम् ।। हस्तपादाग्रलग्नेन भूपेन व्यक्तभक्तिना । लक्षणानां गणेनेव स राज्ये ऽध्यासितो बलात् ॥ ३५६ ॥ वेत्रीभूय पुरः प्रीत्या नरदेवः स्वंसेवकान् ।
पदद्वयं कुमारस्य नमस्कारयति स्म सः ॥ ३५७ ॥ एवं सेव्यपदो विश्वसेनस्तेन महीभुजां । धामभिस्तामसौ तामलिप्तीं चिरमभूषयत् ।। ३५८ ॥ इत्यशेषं निशम्यास्य चरेभ्यश्वरितं नृपः । सुमित्रः पिप्रिये पुत्रपुण्यपात्रत्वनिश्चयात् ।। ३५९ ॥ यास्यता जनकेनाथ योगभोगधिया वनम् । अयमाकार्य नाकेन्द्रप्रतापः क्ष्मापतिः कृतः ।। ३६० ।। सुहृद्भिः सह हृद्भित्तिचित्रितान्योन्यमूर्त्तिभिः । स चकार चिरं राज्यं सुकृतैककृतोद्यमः ।। ३६१ । महीभोगमहीनं ते भुवानन्ते सुरौकसि । जग्मुः पञ्चापि तत्रापि मैत्रयपात्रमिमे ऽभवन् ।। ३६२ ॥ क्रमात्समस्तमध्येते पीत्वा स्वर्गसुखामृतम् । तदर्जन धियेवोवतलं पुनरवातरन् ।। ३६३ ॥ सजीवो विश्वसेनस्य रतिसार भवानभूत् । जीवस्तु क्षत्रपुत्रस्य सुबन्धुत्वमधारयत् ।। ३६४ ॥ जयवीरकलासारजीवाः सौभाग्यमञ्जरी ।
प्रीयंवदा सुतारा च कन्याः संजज्ञिरे पुनः ।। ३६५ ।। चञ्चगुणप्रपञ्चानां पञ्चानामपि तेन वः ।
जयत्ययं पृथुस्थेमा प्रेमा प्राग्भवसंभवः ।। ३६६ । जयाद्यैर्यन्मुनौ दानं माययानुमतं तदा ।