________________
[स.२.३४३-३५४] वासुपूज्यचरितम्
मुनीन्द्रा इव विद्राव्याः पशवो न विवेकिना ॥ ३४३ ॥ हन्ति जन्तुः पुरा हन्टनेभिरग्रे च हन्यते । तद्वध्यरक्षया दक्षः स्वैरं स्याद्वैरपारगः ॥ ३४४ ॥ कां योनि न जगामायमात्मा प्रतिकुल किल । तत्सर्वस्यापि सर्वो ऽपिं बन्धुर्वध्यो ऽस्तु कस्य कः॥३४५॥ इति क्षत्रत्वधर्मित्वनीतिसौजन्यजन्यया । कृपया नृपकोटीर रक्ष्यतां रक्ष्यतां पशुः ॥ ३४६ ॥ इत्युक्तिश्रुतिहष्टो ऽयमुत्तीर्य त्वरया हयात् । लुठन्कुमारपादारविन्दयोरिदमब्रवीत् ॥ ३४७ ॥ त्वत्प्रेष्यस्यापि मे जन्तुजातघातकृतागसः । त्वयि नित्यक्षमाभाजि क्षमस्वेति न भाति वाक् ॥ ३४८॥ अथवाहं तवालोकविगलजिनवजः । न किंचित्समये साक्षानीरुजां किमु जायुभिः ॥३४९॥ कुमार नृपतिद्वारि बद्धस्य लुठतः क्षितौ । तदा प्राणप्रदानेन त्वया मे जनकायितम् ॥ ३५० ॥ तामलिप्यां पुरि स्वाम्यं ततः स्वामिन्सुरीकुरु । इहैश्वर्यं न मे युक्तं पितरीव त्वयि स्थिते ॥ ३५१ ॥ अथामुं तामलिप्तीशं जानन्भूजानिनन्दनः। उत्थाप्य प्रीतिवर्यश्रीः पर्यरब्ध प्रमोदिनम् ॥ ३५२ ॥ निजदेशपरीवारपरीहारनिवन्धनम् । अथाख्यत्पृच्छते सो ऽस्मै कुमारः कारणान्तरम् ॥ ३५३॥ अथ स्फारास्यफेनासु हयसेनासु हेषया । इसन्तीष्विव चेतांसि समेतासु त्वराभरात् ॥ ३५४ ॥ अमूढतुरगारूढं प्रौढभक्तिर्धराधिपः ।