________________
९२
श्रीवर्धमानसूरिविरचितं [स. २.३७९-३९०]
अथ दन्तांशुसंदोहच्छद्मना देहिनामिव । अनर्तयद्गिरं रङ्गन्मृदङ्गाभध्वनिर्मुनिः ॥ ३७९ ।। तारुण्यं वा जरा वास्तु वास्तवः कस्तपःक्षणः । यत्र वा तत्र वा मृत्युरनवस्थो हि देहिनाम् || ३८० ॥ राजञ्जरसि शक्तिः क क च शक्तिं विना तपः । परिव्रजञ्जनस्तस्यां बोधं नयति मोहताम् ।। ३८१ ॥ शक्तिकार्याणि कार्याणि जरायां मारभेत यः । तस्य प्रहस्यते बुद्धिः पलितच्छलतस्तया ।। ३८२ ॥ मृत्योचामरघाणिया भान्त्या पलितचामरैः । जरसालिङ्गितस्यास्तु फलदा कस्य धर्मधीः ।। ३८३ ॥ मोहमत्तद्विपालानतरूस्तरणिमा पुनः ।
मलिनो न कस्यैष स्यात्कुकर्मालिमालितः ॥ ३८४ ॥ अ लीलास्पदीचक्रे विवेको केशरीव मे । आगत्य वर्त्मना येन तदपूर्व निवेद्यते ।। ३८५ ।। श्रीसूर्यपुरमित्यस्ति पुरं यत्रास्तिको जनः । धत्ते धर्मनृपक्रीडाकल्पद्रुमवनश्रियम् ॥ ३८६ ।। इहाजान महीजानिर्महेन्द्र इति विश्रुतः । अन्तर्बहिर्द्विषज्जैत्रं शास्त्रं शास्त्रं च यो दधौ ॥। ३८७ ॥ कुलोचितासु विद्यासु गुरुभिः कारितश्रमः । तस्याहं नन्दनश्चन्द्रयशा इत्याभिधामधाम् ।। ३८८ ॥ हर्षी षोडशवर्षीयं सुधावर्षी गिरां भरैः । भवतापी कदापीदं मामुपांशु नृपो जगौ ॥ ३८९ ॥ राज्यं संसारकान्तारे शृङ्गाटो ऽयमटन्निह । कलितस्खलितः श्रीभिः पिशाचीभिः प्रपात्यते ॥ ३९० ॥