________________
८६
श्रीवर्धमानसूरिविरचितं [स. २.३०७-३१८ ]
कुमारः पुरुषाहारमानमन्नमदान्मुदा ॥ ३०७ ॥ वलमानस्य निःसङ्गपतेरङ्गमथैक्षत । कुमारः पश्चिम स्फारदर्हुमण्डलमण्डलम् ॥ ३०८ ॥ समं स मित्रैर्भूजानिजनिर्जनितभोजनः । जयमुत्साहयन्साधुचिकित्सात्युत्सुको ऽभवत् ।। ३०९ ।। विश्वसेनकलासारौ शुश्रूषां चक्रतुर्यतेः । असज्जयज्जयः शूरवीरानीता महौषधीः ॥ ३१०. ॥ इति क्रमेण निःक्रान्तरुजि संक्रान्तकान्तते ।
i
संमदविश्रान्ते तमिस्रान्ते ऽचलन्नमी ।। ३११ ॥
क्रमयामिकतावश्यवयस्यगणमध्यगः । क्षपायां विपिने कापि सुष्वाप क्ष्मापनन्दनः ॥ ३१२ ॥ तृतीययामिनीयामयामिके जयनामनि ।
प्रमादतः प्रसुप्ते ऽत्र दैवाद्दावानलो ऽज्वलत् ।। ३१३ ॥ कुमारो द्राग्जजागार स्फुटद्वेणुघटास्वनैः । प्रमादसुप्तस्तत्त्वज्ञो लोकशोकरवैरिव ।। ३१४ ॥ यावत्पश्यत्ययं तावद्दावानलशिखावलिः ।
नृत्यतीव वनं प्राज्ययोजनं प्राप्य भोजनम् ।। ३१५ ।। उत्थाप्य सुहृदौ यावत्करोत्येष पलायनम् । तावद्वभार निर्द्वारप्राकाराकारतां दवः ।। ३१६ ॥ स निर्जिगमिषुर्दावात्किं तु निर्गन्तुमक्षमः । संभ्रमी बम्भ्रमीति स्म मिथ्यादृष्टिर्भवादिव ।। ३१७ ॥ अनल्पाः सविपत्कल्पाः क्षिपन्कीला दवानलः । धूमैस्तमान्वयन्मोह इवाभव्यं कदाग्रहैः ।। ३१८ ॥ कामं संकटयामास कृशानुस्तं क्रमान्मिलन् ।