________________
८७
[स.२.३१९-३३०] वासुपूज्यचरितम्
परितः सरितः पूर इव द्वीपासिनं जनम् ॥ ३१९ ॥ यत्र तत्र जगामायं वयस्यास्तत्र तत्र ते । अन्वगुस्तं शुभात्मानं पुरुषार्थोदया इव ॥ ३२० ॥ तापव्यापदि संभ्राम्यन्स बभावात्मपञ्चमः। अक्षग्राम इवोदामव्यथाया विपिनश्रियः ॥ ३२१ ॥ चेलान्तं चिहुरान्तं च गृह्णन्कीलाग्रपाणिना। मुहुराच्छोटितो वहिस्त्रसद्भिस्तैश्चपेटया ॥ ३२२ ॥ अगम्येषु प्रदेशेषु सर्वेष्वेकप्रदेशगान् । नृमांसस्वादलोभीव दावस्ताञ्जिह्वयालिहत् ॥ ३२३ ॥ तेषां कीलायचकितैः संकुचद्भिः समन्ततः । अङ्रङ्गेष्विव तदा प्रवेष्टुमुपचक्रमे ॥ ३२४ ॥ रुद्धायां जीविताशायामाशाभिः सह वह्निना । क्षणे ऽत्र सुहृदः स्माह महीदयितनन्दनः ॥ ३२५ ॥ आकृष्ये मरुतेवाहमाकाशं प्रति संप्रति । आलिङ्गतं मदङ्गं तन्मा मृत्यौ विरहो ऽस्तु नः ॥ ३२६ ॥ अथ लग्नौ दृढं वीरजयौ पदसरोजयोः । कुमारस्य कलासारशूरौ तु करपद्मयोः ॥ ३२७ ॥ अमी समीरसंवतहृता इव चमत्कृताः। आत्तमुक्ता इव दवज्वालाभिः खमथागमन् ॥ ३२८॥ तापातुरस्फुरज्जन्तुपटलं ज्वलनं ततः । ते ऽपश्यन्पुरुषोत्तंसाः संसारमिव योगिनः॥ ३२९ ॥ अथो दवदवीयस्यां ते वयस्याः क्षितौ स्थितम् । स्वप्नोत्थितमिवात्मानं कलयन्ति स्म विस्मिताः ॥ ३३० ॥ यावत्किमिदमित्यन्तश्चिन्तां विरचयन्तिते ।