________________
[स.२.२९५-३०६] वासुपूज्यचरितम्
सुहृदस्ते महासत्त्वाश्चत्वारो ऽपि तमन्वगुः ॥ २९५ ॥ शुशुभे स स भूदशो यं यं सो ऽर्क इवागमत् । यं यं मुमोच स श्रीमान्स स निःश्रीकतां गतः ॥ २९६॥ विलव य पञ्चभिः कंचिदनदेशं दिनैरसौ । कचिद्रामे गतस्तस्थौ सरस्तीरे तरोस्तले ॥ २९७ ॥ तत्र क्षत्रवणिक्पुत्रौ शूरवीरौ वरत्वरौ। ग्रामगर्भात्किमप्यन्नं समादाय समागतौ ॥ २९८ ॥ तौ तु मन्त्रिभिषक्पुत्रौ कलासारजयौ रयात् । कारयांचऋतुर्विश्वसेनं देवार्चनक्रियाम् ॥ २९९ ॥ अथ सो ऽतिथये पश्यन्दिशो मासोपवासिनम् । मुनिमैक्षिष्ट धन्यानां फलन्त्याशु मनोरथाः ॥ ३०० ॥ ततः स्वच्छन्दचतुरः पप्रच्छ चतुरः सखीन् । कुमारः पारणाहेतोरनं दातुमना मुनौ ॥ ३०१॥ क्षुधान्धैः सखिदाक्षिण्यमायाभावनया ततः । उक्तं वणिग्भिषग्मन्त्रिनन्दनैर्दीयतामिति ॥ ३०२ ॥ शूरस्तुत्साहवान्माह मन्ये धन्येतरैर्नरैः। पात्रमत्र क्षणे नेदृग्दृश्यं द्राग्दीयतामिति ॥ ३०३ ॥ अथाभ्युत्थाय भूनाथसूनुनाभ्यर्थितो मुनिः। दक्षो निदूषणं जाननन्नमादातुमुद्यतः ॥ ३०४॥ आनन्दार्णवकल्लोलशीकरायितदृक्पयाः। कुमारेशः समारेभे तस्मै दातुमनातुरः ॥ ३०५ ॥ दत्ते भोज्यार्थमात्रे ऽथ सूरः साकृतमभ्यधात् । कुमार त्वं कृपाधारः क्षुधातापिषु नापरः ॥ ३०६ ॥ विज्ञाय तदभिप्रायमपि साधो निषेधति ।