________________
८४
श्रीवर्धमानसूरिविरचितं [स.२.२८४-२९४] तन्मन्ये सर्वथा नाथ दुरवस्थागते ऽङ्गिनि । मित्रामित्राविचारेण प्राणित्राणं विधीयते ॥ २८४ ॥ सहन्त एब ये हन्त शत्रु ते ऽपि शिवाध्वगाः । ये तु तत्रोपकुर्वन्ति तेषां गतिमवैति कः ॥ २८५ ॥ ताविषं मुञ्चतस्तात क मे ऽभूदविवेकिता । क वास्मि दूषिपक्षो ऽहं त्वत्पादाम्बुजषट्पदः ॥ २८६ ॥ यदादिष्टं च देवेन मन्मही मुच्यतामिति । तद्गतो ऽयमहं पापं पितुराज्ञाभिदं विदुः ॥ २८७ ॥ इत्युदीर्य महावीर्यः प्रस्थितो दरदेशधीः । प्रषीवाम्बुजादंसः पुंवतंसः स संसदः ॥ २८८ ॥ कृपायाः परममाणः परत्राणाय शुद्धधीः ।। यो ऽस्माकं हृदयाधारः स कुमारः क गच्छति ॥ २८९॥ पराभूतान्परैः पाति यो मातेव पितेव नः । जगतां जीविताधारः स कुमारः क गच्छति ॥२९० ॥ जगन्त्यपि विजानाति यः स्वस्येव कुटुम्बकम् । पवित्रचरितोदारः स कुमारः क गच्छति ॥ २९१ ॥ शरीरं जीवितेनेव येनकेन चकास्ति पूः । कृताखिलपरीहारः स कुमारः क गच्छति ॥ २९२ ॥ इत्याक्रन्दपरैर्मन्दग्भिरुत्वातचेतनैः । पौरेः प्रेक्षितसंचारः कुमारो निर्ययौ पुरात् ॥ २९३ ॥
पञ्चभिः कुलकम् ।। निर्याते जीवितमाये वीरे ऽस्मिन्गुणवेश्मनि । नगर्या नागराश्चक्रुरपस्नानमिवाश्रुभिः ॥ २९४ ॥ पौरे ऽनुगन्तुकामे ऽपि स्थिते क्षितिपतेर्भयात् ।