________________
[स. २.२७२ - २८३] वासुपूज्यचरितम्
कृपाणं भृकुटीभीमभालः काककटाक्षवत् ।। २७२ ॥ मन्तुमन्तममुं हन्ता हन्तायं भूपभूः स्वयम् । इति कौतूहलोत्तालालोके लोके स्थि ते ऽभितः ।। २७३ ॥ मृत्युर्ममायमायातीत्युद्वृत्ताकुलचक्षुषः । तामलिप्तीपुरीभर्तुरुपर्यागत्य वेगतः ।। २७४ ।। कृपाश्रुपूर्णदृक्प्रीत्या वपुः सपुलकं वहन् । असौ जगाद संबन्धबन्धुर्वन्धनमच्छिनत् ।। २७५ ॥ चतुर्भिः कलापकम् ॥
त्वरया ये मनांसीव मनसामपिं रेजिरे । तैरश्वैर्विश्वसेनेन प्रेषितः स ययौ जवात् ॥ २७६ ॥ तत्परिज्ञाय विच्छायः कुपितो नृपतिर्जगौ । कुमारं प्रति सारङ्गपतिवन्निष्ठुरस्वरः ।। २७७ ।। येनैकेन हतेन स्याद्बहूनां देहिनां सुखम् । स वध्यः शुद्धबुद्धीनां कृपातिशयलिप्सया ।। २७८ ॥ कृपा ते कूपपातेन किमियं न क्षयं गता । यद्विषं मुञ्चता देशः पातकिन् घातितस्त्वया ।। २७९ ॥ कुर्वन्भूरि स्वदेशघ्घ्रे निर्विवेकः कृपां रिपौ । त्वमप्यसि विपक्षो मे न स्थेयं मद्भुवि त्वया ।। २८० ॥ इति व्याहृतिमाकर्ण्य कुमारस्तारसंमदः । स्फारविद्वच्चमत्काररचनं वचनं दधौ ।। २८१ ॥ श्वसल्लँसन्ग्रसन्को न जन्तून् हन्ति सहस्रशः । तदेकस्य वधः कस्य माज्यप्राणिप्रियाय न ॥ २८२ ॥ एवं सति मतिप्रष्ठैर्बहूनां हृष्टिहेतवे ।
को हन्तव्यः क कर्तव्यः कृपावद्भिः कृपाकणः ।। २८३ ॥
८३