________________
८२
श्रीर्वधमानसूरिविरचितं [स.२.२६१-२७१]
त्वन्मातुरमुनाहारि राज्ञासौ समहारि तत् ।। २६१ ॥ मम्मातुर्वित्तहर्तायं हन्तव्यः स्वेच्छया मया । इत्युदित्वाथ तेभ्यस्तं कुमार चौरमग्रहीत् ।। २६२ ।। अन्यायाद्गृह्यमाणा श्रीर्मणिः फणिपतेरिव । मर्त्येषु मोहमत्तेषु दत्ते मृत्युमसंशयम् ।। २६३ ।। आकृष्टिमन्त्रे लक्ष्मीणां पिष्टियन्त्रे महापदाम् । धर्मस्य जीवितप्राये मतिर्न्याये वितन्यताम् ।। २६४ ॥ इत्युक्तया शिक्षयित्वायं कुमारेण मलिम्लुचः । वरचीवरदानेन तोषितः प्रेषितो ययौ ।। २६५ ॥ त्रिभिर्विशेषकम् ॥
एकदा राजसेवार्थ व्रजन्राजगृहाजिरे । प्रभूतां मण्डलीभूतां भूपजः प्रेक्षत प्रजाम् || २६६ ॥ किमत्रेति कुमारेण पृष्टः कोटीरयन्करौ ।
व्यक्तभक्तिकलदिक्षस्तलारक्षो जगाद गाः ।। २६७ ॥ निजा निजघ्निरे येन विषयाश्छद्मसद्मना । त्वरावत्पत्रसेनेन येनेनेव पतत्रिणः ।। २६८ ॥ प्रच्छन्नपुंनियुक्तेन रसदानेन यः सदा । हन्ति नो दन्तिनो लीलाशैलानिव जयश्रियः || २६९ ॥ जगत्यस्ति समस्ते ऽपि नास्माकं यत्परः परः । सैष विक्रमसेनाख्यस्तामलिप्तीपुरीश्वरः ।। २७० ॥ वीरसेनेन सेनान्या छलघाटिकया धृतः । क्षेपितः क्ष्माभुजा हन्तुमिह मन्तुमहोदधिः ।। २७१ ॥ चतुर्भिः कलापकम् ॥
इति श्रुतिकृतक्रोध इवाकृष्टं मनर्तयन् ।