SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [स.२.२४९-२६०] वासुपूज्यचरितम् ८१ भवं भूपभवो ऽपृच्छदेशनान्ते नतौ यतिम् ॥ २४९ ॥ मुनीन्दुरपि दन्तांशुच्छलमचलदञ्चलाम् । आन्दोलयत लोलायां दोलायामिव भारतीम् ॥ २५० ॥ श्रीहस्तिपुरमित्यस्ति भुवस्तिलकवत्पुरम् । सेव्यन्ते कृतकीर्त्यम्बुमज्जनैर्यज्जनैः श्रियः ।। २५१ ॥ तत्रासीदहितत्रासी सुमित्र इति भूपतिः । यत्प्रतापप्रतानिन्या निन्ये भानुः प्रसूनताम् || २५२ ॥ तस्य सूनुरभूद्विश्वसेनाख्यो विश्वभूषणम् । यः कलानां गुणानां च शङ्के सङ्केतकेतनम् || २५३ ॥ अदुष्टयैव दृष्ट्या स स्वभावाविर्भवत्कृपः । ददर्श सर्पतः सर्पानपि दर्पातिपातिनः ।। २५४ । कदाप्यन्यायवल्लीनां मस्करे ऽपि न तस्करे । करुणाकरिणीविन्ध्यो वधबुद्धिं व्यधत्त सः ॥। २५५ ।। अपराधपराधीने क्रोधासीने ऽपि विद्विषि । नकदाचिदसौ चक्रे मत्सरं विश्ववत्सलः ॥ २५६ ॥ चत्वारो ऽस्य कलासारसूरवीरजयाख्यया । मन्त्रित्रवणिग्वैद्यनन्दनाः सुहृदो ऽभवन् ।। २५७ ॥ • एभिः समं स मन्त्रीन्द्रपुत्राद्यमद्यदुद्यमः । चतुर्भिः शुशुभे खेलन्धर्मैरात्मेव धीमतः ।। २५८ ॥ स प्रैक्षत कृपारी(लो लीलोयाने ऽन्यदा व्रजन् । चण्डालैश्चालितं कंचिच्छूलमूलचरं नरम् ॥ २५९ ॥ दशामीदृशमागच्छत्किमागः कलयन्नयम् । इति भूपभुवा पृष्टवण्डालपतिरालपत् ।। २६० ॥ नभोरत्नसपत्नाभरत्नाभरणपेटिका ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy