SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ..60 • श्रीवर्धमानसूरिविरचितं [स.२.२३७–२४८] अकारि स्ववियोगेन खेदिनी मेदिनी च का ॥ २३७॥ ईदृक्षवेषसंभाव्यस्तव पाणिग्रहोत्सवः । कस्याः सफलयामास जीवितं जन्म वर्ष्म च ॥ २३८ ॥ प्रियेsपि त्वयि प्रार्मलानि किमन्धताम् । उलूकमण्डलानीव भासुरे वासरेश्वरे ।। २३९ ।। इत्युक्ते भूभुजाचख्यौ कुमारचरितं निजम् । क्रुद्धसैन्यान्धताहेतुं न वेशीति जगाद सः ॥ २४० ॥ अथ धात्रीशमन्त्री श्रेष्ठश्रेष्ठैरवन्यत । प्रमोदप्रीणितं पुत्रपाणिग्रहमहामहः ।। २४१ || श्लोकातिबन्धुताप्रतिबन्धुरेण सुबन्धुना । तदुक्तिश्रवणादेस्य कुमाराय ददे मदः ।। २४२ ।। कुमारस्य प्रसादेन धनं धात्रीश मे ऽधुना । इति विज्ञपनात्तेन विशेषात्तोषितो नृपः ॥ २४३ ॥ कुमारेण समं प्रीतिवातभृतामिलामृतम् । एत्यापराह्नकाले ऽथ वनपालो व्यजिङ्गपत् ।। २४४ ॥ स्वामिन्को sure दक्षौघवारणश्चारणो मुनिः । उत्तीर्य व्योमतो ऽकार्षीत्कायोत्सर्ग वने ऽधुना ॥ २४५ ॥ इत्यभिश्रुत्य सत्कृत्य वनीशमवनीशिता । art समं कुमारेण मुनेरुत्कण्ठया वने ।। २४६ ।। नमस्यतो नरेशादीन्भव्यान्संभावयन्नथ । ज्ञानत्रयमयः कायोत्सर्गमप्यमुञ्चन्मुनिः ॥ २४७ ॥ देशनां भवकान्तारतापनिर्वापनोचिताम् । व्यधान्मुक्तिपुरद्वारसुधासिन्धुं यतिस्ततः ।। २४८ ॥ सुबन्धोः स्वस्य च प्राच्यं कर्मवैचित्र्यकारणम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy