________________
Teaching Point : सन्धि -पदान्त ए + अ
त्रयोदशः
नत्य-कलापमा
पाठः
अद्यत्वे
अतिरेक प्रकिटय
अभिव्यक्तिः आदिम प्रस्फुटम् प्र+चल्
उद्गमः आधारीक वैशिष्ट्यम् स्थलम्
नृत्य-नाटिका बहुशः प्रियंकर जनः स्वं हर्षातिरेकं प्रकटयितुं नृत्यति । हर्षातिरेकस्य अभिव्यक्तिः नृत्येनापि भवति । सन्ति अन्येऽपि प्रकाराः हर्षस्य अभिव्यक्तेः परं तेषु नर्तनमेव मानवस्य आदिमः प्रकारः इति प्रस्फुटम् । बालोऽपि यदा हृष्यति सः नृत्यति । उत्सवेषु जनाः नार्यः च नृत्यन्ति । कलासु नृत्यमेव आदिमेति केचित् ।।
नृत्यस्य द्वौ प्रकारौ स्तः-लोकनृत्यं शास्त्रीय-नृत्यं च। प्रत्येक प्रदेशे विविधानि लोक-नृत्यानि दृश्यन्ते, यथा पञ्चनद-प्रदेशस्य भंगड़ा इति, राजस्थानस्य घूमर इति, गुर्जर-प्रदेशस्य गरबा इति, महाराष्ट्रस्य कोली इति, हिमाचल-प्रदेशस्य पंगी इति, एवं चान्यत्र अनेकानि लोकनृत्यानि प्रचलन्ति । परं सन्ति तत्र अन्यानि नृत्यानि यानि राष्ट्रिय स्तरं प्राप्तानि, यथा1. भरत- नाट्यम्-तामिल-नाडु-प्रदेशस्य सैंजोर इति नाम स्थानेऽस्य उद्गमोऽभवत् ।
देवदासीनाम् आसीत् नृत्यमिदम् । देवालयेषु अस्य विकासोऽभवत् ।
478