________________
Teaching Point : (i) अनुस्वार-संधि :
दशमः
पाठः
एका
कोशी
गर्दभः रजकः वहू रात्रि अन्नम् कर्कटिका
धिक्
तावत्
द्वारम्
तथा
यथा
प्रार
गर्दभस्य गीतम्
37
स्वरः
राज्
आतृप्ति
ताडय् मृतप्राय
कस्मिंश्चित् ग्रामे एकः गर्दभः आसीत् । दिने सः रजकस्य वस्त्राणि वहति स्म । रात्रौ च सः इतस्ततः भ्रमति स्म । कश्चित् शृगालः तस्य मित्रमभवत् । रात्रौ तौ भ्रमित्वा स्वं कालं नयतः स्म । रात्रौ क्षेत्राणि प्रविश्य तौ अन्नं खादतः स्मः ।
एकदा तौ कर्कटिकानां क्षेत्रम् अगच्छताम् । तत्र काश्चित् कर्कटिकाः खादित्वा गर्दभः अवदत्-" भोः मित्र, समयः सुन्दरः । आकाशे चन्द्रः राजति । अहम् एकं गीतं गास्यामि । कथय, केन स्वरेण गायानि ?” इति । शृगालः अवदत् - "एवं मा कुरु । तव स्वरम् आकर्ण्य कृषकः अत्र आगमिष्यति आवां च ताडयिष्यति” इति ।