________________
तत्त्वार्थाधिगमसूत्र भाग-४ / अध्याय-८ સૂત્ર-૧૦
उदकराजिसदृशो नाम यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यतमेन हेतुना राजिरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसदृशः, तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति ।
मानः, स्तम्भः, गर्वः, उत्सेकः, अहङ्कारः, दर्पः, मदः, स्मय इत्यनर्थान्तरम् । तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा शैलस्तम्भसदृशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैर्व्याख्यातम् ।
-
माया, प्रणिधिः, उपधिः, निकृतिः, आवरणं, वञ्चना, दम्भः, कूटम्, अतिसन्धानम्, अनार्जवम् इत्यनर्थान्तरम् । तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तथ - वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसदृशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते ।
-
भाष्यार्थ :त्रिद्विषोडशनवभेदा
लोभो, रागो, गार्ध्यं, इच्छा, मूर्च्छा, स्नेहः, काङ्क्षा, अभिष्वङ्ग इत्यनर्थान्तरम्, तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जन(कुसुम्भ ?)रागसदृशः, हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते । एषां क्रोधादीनां चतुर्णां कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो भवन्ति । क्रोधस्य, मार्दवं मानस्य, आर्जवं मायायाः, सन्तोषो लोभस्येति ।।८ / १० ।।
क्षमा
लोभस्येति ।। गजे, सोज जने नवलेही यथाभ छे.
૨૧
-
તે ક્રમ જ સ્પષ્ટ કરે છે
મોહનીયનો બંધ બે પ્રકારનો છે. દર્શનમોહનીય નામનો અને ચારિત્રમોહનીય નામનો. ત્યાં=દર્શનમોહનીય અને ચારિત્રમોહનીયમાં, દર્શનમોહનીય નામનો મોહ ત્રણ ભેદવાળો છે. તે આ પ્રમાણે – મિથ્યાત્વરૂપે વેદન કરવા યોગ્ય કર્મ મિથ્યાત્વવેદનીય, સમ્યક્ત્વરૂપે વેદન કરવા યોગ્ય કર્મ સમ્યક્ત્વવેદનીય (અને) સમ્યક્ત્વમિથ્યાત્વરૂપે વેદન કરવા યોગ્ય કર્મ સમ્યગ્મિથ્યાત્વવેદનીયકર્મ. 'इति' शब्द हर्शनमोहनीयना 3 लेहनी समाप्ति भाटे छे.
-
ચારિત્રમોહનીય નામનો મોહ બે ભેદવાળો છે કષાયરૂપે વેદનીય અને નોકષાયરૂપે વેદનીય. 'इति' शब्द यारित्र मोहनीयना जे लेहनी समाप्ति भाटे छे.