SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ તત્ત્વાર્થાધિગમસૂત્ર ભાગ-૨ | અધ્યાય-૩સૂગ-૫ पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु सङ्क्लिष्टकर्माणः पापाभिरतय आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजी एते ताच्छील्यानारकाणां वेदनाः समुदीरयन्ति विचित्राभिरुपपत्तिभिः । तद्यथातप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोधनाभिघातवासीक्षुरतक्षणक्षारतप्ततैलाभिषेचनायःकुम्भपाकाम्बरीषभर्जनयन्त्रपीडनायःशूलशलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनसूचीशाड्वलापकर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलूकश्येनादिखादनैस्तथा तप्तवांलुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेतत्-किमर्थं त एवं कुर्वन्तीति, अत्रोच्यते, पापकर्माभिरतय.इत्युक्तं, तद्यथा - गोवृषभमहिषवराहमेषकुक्कुटवार्तकलावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतः पश्यतां रागद्वेषाभिभूतानां अकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते, तथा तेषामसुराणां नारकाँस्तथा तानि कारयतामन्योऽन्यं नतश्च पश्यतां परा प्रीतिरुत्पद्यते, ते हि दुष्टकन्दर्यास्तथाभूतान् दृष्ट्वाऽट्टहासं मुञ्चन्ति, चेलोत्क्षेपावेडितास्फोटितावल्लिततलतालनिपातांश्च कुर्वन्ति, महतश्च सिंहनादान् नदन्ति तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवकर्षस्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं, यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभभावा एव प्रीतिहेतवः समुत्पद्यन्ते, इत्येवमप्रीतिकरं निरन्तरं सुतीव्र दुःखमनुभवतां मरणमपि काङ्क्षतां तेषां न विपत्तिरकाले विद्यते, कर्मनिर्धारितायुषाम्, उक्तं हि-'औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽनपवायुषः' (अ० २, सू० ५३) इति, नैव तत्र शरणं विद्यते, नाप्यपक्रमणम्, ततः कर्मवशादेव दग्धपाटितभिन्नच्छिनक्षतानि च तेषां सद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भसि, एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ।।३/५।। भाष्यार्थ: सङ्क्लिष्टासुरोदीरितदुःखा च ..... भवन्तीति ।। संति वा ५२माधामी पोथी यने प्राप्त કરાયેલાં દુઃખોવાળા તારકીઓ હોય છે. 'इति' श६ यती समाप्तिमा छ. કઈ નરક સુધી દેવકૃત દુઃખો છે ? તેથી કહે છે – ચોથી તારકથી પૂર્વે ત્રણ નારક સુધી પરમાધામીકૃત દુઃખો હોય છે. तभा प्रमात ५२माधामी यो मा प्रमाणे - अंब, बरीष, श्याम, सणस, 35, 6पद्र,
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy