________________
सारांश ]
प्रष्टमोऽध्यायः
[
५६
ॐ श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमाध्यायस्य सारांशः .
श्रीजिनागमसिद्धान्त - सारः तत्त्वार्थसूत्रकम् । सर्वेषां विदुषां मान्यं, जिज्ञासूनां प्रबोधकम् ॥ १ ॥ सिद्धिसंख्यान्वितेऽध्याये, मिथ्यात्वादि - पुरस्सरम् । बन्धनिरूपणं सम्यक्, कृतं सत्तत्त्वदर्शिना ॥ २ ॥ बन्धस्य हेतवः पञ्च, प्रमुखाः सन्ति कर्मणाम् । मिथ्यादर्शनयोगावि - रत्यालस्य - कषायकाः ॥ ३ ॥ चतुर्धा द्रव्यबन्धस्य, भेदाः शास्त्रे सुवरिणताः । प्रकृतिस्थित्यनुभाव - प्रदेशनामकाः किल ॥ ४ ॥ कर्मप्रकृति कार्याणा - मष्टौ भेदाः प्रकीर्तिताः । ज्ञानावरणकर्मादि - भिर्नाम्ना चात्र गुम्फिताः ॥ ५ ॥ प्रष्टकर्माणि नामानि, तत् प्रकृत्यनुसारतः । जघन्योत्कृष्टभेदेन, कर्मस्थितिद्विधा मता ॥ ६ ॥ तद् विपाकोऽनुभावोऽयं, यथा नाम तथा गुणः । ददात्येव फलं काले, मूलकर्मानुसारतः ॥ ७ ॥ नष्टे बीजे यथात्यन्त - मङ्कुरो नो प्ररोहति ।
तथा नष्ट कर्मबीजे, नो पुनः स्याद्भवाङ्कुरः ।। ८ ॥ Mirrrrrrrrrrrrrrywww
radibasi.dadadladdadimaabidabaddalaimaduindia,