________________
॥ श्रम् ॥
5 श्रीतत्त्वार्थाधिगमसूत्रम् 5
तस्यायं
अष्टमोऽध्यायः
अत्र पर्यन्तं सप्ततत्त्वेषु जीवाऽजीवाऽऽस्रवत्रयतत्त्वानां वर्णनं कृतम् । अष्टमाध्याये तु बन्धतत्त्वस्य वर्णनमत्र क्रियते ।
* कर्मबन्धहेतु निर्देश:
5 मूलसूत्रम् -
मिथ्यादर्शना - ऽविरति प्रमाद - कषाय- योगा बन्धहेतवः ॥ ८- १॥
* सुबोधिका टीका *
बन्धहेतवः पञ्च भवन्ति । तेषामाद्यं मिथ्यादर्शनं अविरतिः प्रमादः कषायश्च । सम्यग्दर्शनविपरीतं मिथ्यादर्शनं तद् द्विविधं प्रभिगृहीतमनभिगृहीतं च ।
जीवः सकषायत्वात् कर्मणो योग्यान् पुद्गलान् गृह्णाति । कर्मयोग्यानिति अष्टविध - पुद्गलग्रहण - कर्मशरीरग्रहणयोग्यानिति । सैव कर्मशरीरपुद्गलग्रहण कृतो बन्धो भवति । स पुनश्चतुर्विधः । प्रकृतिबन्धः स्थितिबन्धः श्रनुभावप्रदेशबन्धौ च । अष्टविधः प्रकृतिबन्धः ज्ञान - दर्शन - वेदनीय मोहनीय श्रायुष्क - नाम - गोत्रान्तरायैः व्यवहृतः ।
एषः प्रकृतिबन्धः प्रष्टविधः पुनरेकशः पञ्चभेदः नवभेदः द्विभेदः प्रष्टविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद् भेदः द्विभेदः पञ्चभेदः विभक्तः ।
एतद् विषये श्रीतत्त्वार्थसूत्रस्य भाष्येऽपि कथितमाह
तत्र सम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनम् । तद्विविधमभिगृहीतमनभिगृहीतं च । तत्राभ्युपेत्या सम्यग्दर्शनपरिग्रहोऽभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्ठानां