________________
AdamdaradiatimaanandMAMMMMMilamaaaaaaaaaandal
श्रीतत्त्वार्थाधिगमसूत्र
[ सारांश AMANANMadaadimanabadimania.in
परिग्रह - प्रमाणस्य, कृतं सूत्रेषु वर्णनम् । क्षेत्र - वास्तु - हिरण्यादि - सुवर्ण - धन - धान्यकम् ॥ १२ ॥ दासीदासप्रमाणाति - क्रमः कुप्य - प्रमाणकम् । .... एते पञ्चातिचाराश्च, परिग्रह - व्रतस्य च ॥ १३ ॥ दिग्वतस्यातिचाराः वै, ऊर्ध्वव्यतिक्रमादयः । द्रव्यस्यानयनं प्रेष्य, शब्दरूपश्चे पुद्गलः ॥ १४ ॥ देशव्रतस्यातिचाराः पञ्चैता सप्तमे स्तुताः । एवमनर्थ - दण्डस्य, प्रोक्ता पञ्चातिचारकाः ॥ १५ ॥ कायदुष्प्रणिधानानि, सामायिकव्रतस्य च । अप्रत्यवेक्षितादीनि, पञ्चैव पौषधस्य च ॥ १६ ॥ सचित्ताहारसचित्त - सम्बन्धाहारमेव च । सचित्त - मिश्रमाहारा - भिषव दुष्पक्व पंचमः ॥ १७ ॥ एते पञ्चातिचारा हि, उपभोग - व्रतस्य च । अतिथिसंविभागस्या - ऽतिचाराश्च भवन्ति हि ॥ १८ ॥ भवन्ति जीविताशंसा, द्वितीयामरणाऽपि वै । तथा मित्रानुरागो वै, सुखानुबन्धप्रक्रमाः ।। १६ ॥ निदानकरणं पञ्च, प्रोक्ता संलेखना कृते । व्रतानि पुनरुच्यते, वतिनः सन्ति यानि च ।। २० ।। परात्मानुग्रहार्थञ्च, निजद्रव्यान् न वस्तूनाम् ।। दानं पात्रेऽतिसर्गोऽपि, तत्त्वार्थाधिगमे कृतम् ॥ २१ ।। विधिद्रव्यविशेषादि,
दातृपात्रविशेषणः । फलविशेष प्रोच्यन्ते, उक्त दानस्य लक्षणम् ।। २२ ।।
Allahabharatadaadiadrasbhimaanadaadimadadabaalamaanade
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww