________________
५।२० ]
5 मूलसूत्रम्
पञ्चमोऽध्यायः
[ २६
सुख-दुःख- जीवित-मरणोपग्रहाश्च ।। ५-२० ।।
* सुबोधिका टीका *
जगति कस्यापि न कोपीष्टः नानिष्टः नैतद्, एकमेव द्रव्यं कस्मै रोचते एकस्यै नैव रोचते, कालान्तरे वा रुचिकरे व्यज्यते श्ररुचिकरं ग्राह्यते । अतः स्वभावेन सिद्धं यत् न कोऽपि इष्टं न कोऽपि अनिष्टमिति । तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ।। [ प्रशमरति ] सुखोपग्रहो, दुःखोपग्रहो, जोवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः । तद्यथा इष्टाः स्पर्श-रस-गन्ध-वर्णशब्दाः सुखस्योपकाराः श्रनिष्टाः दुःखस्य ।
वस्तुतः यः पदार्थः रागस्य विषयभूतमिष्टम्, तदेव प्रविधिसेवनेन अनिष्टम्
भवति । यदि स्नानादयः विधिना न सेव्यन्ते कदाचित् ते अपायकारणानि अपि सम्भाव्यन्ते । किन्तु देशकालमात्रा - स्वप्रकृत्यानुरूपं श्राहार-विहार- शयनानि वासनानि प्राणधारणोपकारकारिण जायन्ते । अतः जीवनोपग्रहारिण भवन्ति ।
श्रायुष्यकर्मणः दीर्घस्थितिर्विष- शस्त्राग्नि प्रहारमन्त्रप्रयोगादिभिः न्यूना भवति अपवर्तनमुच्यते । यस्यायुबन्धस्थ विशेषतया अपवर्तनं प्रसम्भाव्यम्, तदपि पुद्गल - द्रव्यस्योपकारः ।
कर्मणः न्यूनाधिकमशक्यम्, तर्हि पुद्गलद्रव्यस्य किमुपकारम् ?
अन्यच्च उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयायुषाम्, प्रथानपवर्त्यायुषां कथमिति ?
तेषामपि जीवितमरणोपग्रहः पुद्गलानां उपकारः कथमिति ? तदुच्यते कर्मणः स्थितिक्षयाभ्यां कर्म हि पौद्गलमिति । श्राहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् ? शरीरस्थिति उपचयबलवृद्धि प्रीत्यर्थं ह्याहारः ।
वस्तुतः जीवामूर्तः संसारीणामेक क्षेत्रावगाह - कर्मनो कर्मरूपपुद्गलैः सह भूयते । तन्निमित्तं सर्व भवति । पूर्वमुक्तं यत् शरीरस्थिति रसवृद्धि - बलवृद्धि - प्रीत्यादयः प्रहारेणैव सिध्यन्ति । तत्र च प्रोजः - प्राहारलोमाहार प्रक्षेपाहाराणि । यथा घृतापूपः घृतं कर्षति तथैव गत्यन्तरेण गर्भजीवोऽपि अपर्याप्तावस्थायां जन्मकाले च सर्वैः