________________
卐 प्रगुरुदेवाय नमो नमः साहित्यसम्राट् - व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न * श्रीविजयलावण्यसूरीशाष्टकम् *
___ (शिखरिणीवृत्तम्) सुधाधारासाराऽतिमधुरसुवाण्यारचनया ,
___ सुभव्यानां चेतोऽम्बुजदलसुपङ्क्तोदिनमणिम् । सुशास्त्राब्धी देवाऽचल विमलधिष्णं बुधवर ,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। १ ।। सदाक्रीडन्तं स-च्चरणजलधौ नौ वरगुणः ,
सुशीलालंकारो - लसिततनुवल्लीसुललितम् । सविद्वद्वन्दालि-स्तुतविबुधतं सद्गुणयुतं ,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। २ ।। यशोभिर्यस्येदं . धवलमतिभूमण्डलतलं ,
क्षमावल्लीमाला-परिमलविकीर्णा दशदिशः । सुलेखेन श्रीमद्-बुधजनमनो मोदकुशलं ,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। ३ ।। वहन्तं योगं चाऽऽगममननपूर्वं च सकलं ,
गतं सूरीशान्तं सुगुणयुतप्रावर्तकपदात् । सभायां व्याख्याता शुभ भगवती येन निखिला ,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ॥ ४ ॥ अनल्पे ग्रन्थोघे सुनिपुणधिया शास्त्रनिपुणः ,
कवीनां रत्नं व्या-करणवरवाचस्पतिरिति । शुभा प्राप्ता येन त्रिविधपदवी श्रीगुरुवरात् ,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। ५ ।।