________________
चाणस्मानगर मण्डन
ॐ श्रीभटेवापार्श्वनाथजिनाष्टकम्
[ शिखरिणी-वृत्तम् ]
चिरं गेहे - गेहे, भरतभुवि सर्वत्रप्रथितं,
गुणाख्यानं मानं, सुरनरजनैर्यस्य कथितम् । चमत्कारान्वितं वरदमतुलं, निर्भयकरं,
भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। १ ।।
स्थितं
श्रीचाणस्मानगरजन संस्थापित-महा
शुभाभे प्रासादे, मणिमुकुटवन्तं प्रमुदितम् । श्रवः शोभावन्तं, कनककृतभूषाभिरभितो,
भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। २ ।।
स्वभक्तानां पार्श्व, प्रमुदितमनोरक्षण परं,
प्रभावत्या राज्ञ्या, तदनुसुरचन्द्राचितपदम् । मनःस्थं सर्वस्वं सकलमिह दित्सु जिनवरं,
भटेवापाशं, सततमभिवन्दे सविनयम् ।। ३ ।।
सदा शान्ताकारं, हृतसुजनभारं प्रभुवरं, त्रिलोकी सन्नाथं, समैः देवैर्जाते, समवसरणे भटेवापार्श्वशं
गुणगणनाथं गतमदम् । पूजितपदं,
सततमभिवन्दे सविनयम् ।। ४ ।।
जगत् सर्वं स्वीयैर्महितचरितैरत्र सुखिनं,
विधातु ं सन्नद्धं, कमठसदृशे वै हितप्रदम् ।
स्थितं तं श्रीशङ्खश्वरजिनसमीपेऽनवरतं, भटेवापार्श्वशं सततमभिवन्दे
सविनयम् ।। ५ ।।