SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] षष्ठोऽध्यायः ___ एतदेव सूत्रेणैव दर्शयितुमाह-प्राभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वयो र्व्यवहरणं व्यवहारो नियुक्तिकत्वान्नयुज्यते । तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव । कर्मबन्धस्य कारणं । अपि तु वधकस्य तीवभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि । तदेवं वध्य-वधकयोविशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य, सदृशत्वासदृशत्वव्यवहारो न विद्यते इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचार, विजानीयादिति । तथाहि-यज्जीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते, तद् अयुक्तम् । यतो न हि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वात् । अपि त्विद्रियादिव्यापत्त्या तथा चोक्तम्-पञ्चेन्द्रियाणि, त्रिविधं बलं च उच्छ्वासनिः श्वासमथान्यदायुः । प्राणाः दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। १ ।। इत्यादि । अपि च भावसव्यपेक्षस्यैव, कर्मबन्धोऽभ्यपेतुयुक्तः । तथाहि-वैद्यस्यागमसव्यपेक्षस्य, सम्यक् क्रियां कुर्वतो, यद्यप्यातुरविपत्तिर्भवति, तथापि न वैराषङ्गो भावदोषाभावाद् । अपरस्य तु सर्पबुद्धया रज्जुमपि घ्नतो भावदोषात् कर्मबन्धः । तद् रहितस्य तु न बन्ध इति । उक्त चागमे, उच्चालयमिपाए। इत्यादि तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव तदेवं विधवध्यवधकभावापेक्षया स्यात् । सदृशं स्याद् असदृशत्वमिति । अन्यथाऽनाचार इति ।। ७ ।। [ श्रीशीलाङ्काचार्यकृत वृत्तिः ] 卐 मूलसूत्रम् अधिकरणं जीवाऽजीवाः ॥ ६-८ ।। * तस्याधारस्थानम्जिवे अधिकरणं । [श्रीव्याख्याप्रज्ञप्ति शतक-१६, उद्देश-१] एवं अजीवमवि । [श्री स्थानांग स्थान २, उ. १, सूत्र ६०]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy