________________
एषु पञ्चसु चत्वारोऽरूपिणोऽजीवाः । पुद्गलास्तिकायो रूपिद्रव्यम् । वर्णरस-गन्ध-स्पर्शयुक्तत्वात् ये केचनापि निर्जीवपदार्थाः दृष्टिगोचरा भवन्ति ते सर्वेऽपि पुद्गलात्मकाः। तत्त्वार्थसूत्रस्य टीकायां पुद्गलविषये तत्त्वार्थस्य सिद्धसेनव्याख्यायां व्युत्पत्तिः प्रदर्शिता-"पूरणात् गलनाच्च पुद्गलाः”। ............
अस्तिकायधर्मविषये जैनाचार्याणां प्रायः सर्वमान्य-व्युत्पत्तिलभ्या परिभाषास्ति'अस्तयः-प्रदेशाः तेषां कायो-राशिरस्तिकायः, धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः । इति विषयः तत्त्वार्थस्य पञ्चमेऽध्याये वरिणतः तथा सुबोधिकायां टीकायां सम्यग् स्फुटीकत्तुं प्रयतितमाचार्यप्रवरेण ।
यया क्रियया जीवे कर्मणां स्राव:-प्रागमनं भवति तदेव प्रास्रवतत्त्वम् । प्रास्रवः कर्मणां प्रवेशद्वारः। महर्षिणोमास्वातिमहोदयेन षष्ठेऽध्याये प्रास्रवविषये प्रागमसिद्धान्तपूतानि सूत्राणि विरचितानि । कायवाङ्मनःकर्मयोगः स प्रास्रवः । स कषायाकषाययोः साम्परायिकर्यापथयोः । अस्मिन् प्रसङ्ग सुबोधिकाटीकायां श्रीमद्विजय सुशीलसूरीश्वरेण साधुरीत्या स्फुटीकृत्य विषयः प्रतिपादितः ।
पञ्चमषष्ठाध्याययोः सुबोधिकायां भेदप्रभेदसहितम् अजीवास्रवतत्त्वयोः सद्यः सुबोधकारिणी व्याख्याशैली समादृता सूरीश्वरेणेति साधुवादार्हाः ।
एषा रचना मननीया सर्वथोपादेया च जिज्ञासुभिः बालमुनिभिः शोधाथिभिश्चेति मन्तव्यम् । शिवमस्तु सर्वजगतः ।
विदुषां वशंवदः कृष्ण जन्माष्टमी, १५-८-६८
शम्भुदयालपाण्डेयः कुलवन्तीकुञ्जम्
संस्कृतव्याख्याता १०/४३० नन्दनवनम् जोधपुरम् ।
१. (क) स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः । -तत्त्वार्य ५/२३ (ख) सधयार-उज्जोमओ, पहा छायातवे इ वा ।
वण्णगंधरसाफासा, पुग्गलाणं तु लक्खणं ।।-उत्तराध्ययन २८/२१ २. स्थानांग, १० स्थानवृत्तिः। ३. तत्त्वार्थ. प्र. ६, सू. १। ४. तस्वार्थ. प्र. ६, सू. ५ ।