________________
प्रतिष्ठाचक्रवर्ती। स्थाने-स्थाने श्रीजिनमन्दिराणां प्रतिष्ठा-अंजनशलाका-जीर्णोद्धारादि महनीयेषु कार्येषु प्रेरणास्रोतत्वात् जनैः 'प्रतिष्ठाशिरोमणि'-उपाधिना सम्मानितः ।
विविधोपाधि-विभूषितोऽप्यमतीवसरलः, विनीतः, सतत-साहित्यसेवासु संलग्नो विराजते। अस्य श्रीतीर्थङ्करचरित - षड्दर्शनदर्पण-शीलदूतटीका-हेमशब्दानुशासनसुधा-छन्दोरत्नमाला - साहित्यरत्नमञ्जूषा - गणधरवाद-मूर्तिपूजासार्द्धशतक - स्याद्वादबोधिनी-लावण्यसूरिमहाकाब्यादि महनीयग्रन्थाः विख्याताः सन्ति । सम्प्रति उमास्वातिविरचितस्य श्रीतत्त्वार्थाधिगमसूत्रस्य सुबोधिका-संस्कृत टीका-हिन्दीविवेचनामृतेण सह श्रीमतां करकमलेषु सुशोभते । श्रीतत्त्वार्थाधिगम-'सुबोधिका'-वैशिष्टयम् :
'तत्त्वार्थाधिगमसूत्रम्' सूत्रात्मकशैल्यां विरचितं वर्तते। यद्यपि महर्षिणोमास्वातिमहोदयेन स्फुटशैली स्वीकृता किन्तु सूत्रशैली निश्चप्रचत्वेन व्याख्यां-भाष्यं चापेक्षते । इति मनसि निधाय पूर्वसूरिभिरपि भाष्य-व्याख्या-टीकादिग्रन्था रचिताः श्रीतत्त्वार्थाधिगमसूत्रस्य ।
श्रीमद्विजयसुशीलसूरीश्वरेणापि प्रागमानां रहस्यभूतस्यास्य ग्रन्थ रत्नस्य 'सुबोधिका' नाम्नी टीका विरचिता सुकुमाराणां तत्त्वजिज्ञासूनां झटित्यर्थावगमाय स्वान्तः सुखाय च। सरलैः शब्देस्तत्त्वार्थस्य स्पष्टीकरणम्, सरलीकरणं च सूत्रकारस्य मनोभावानां तत्तज्जैनसिद्धान्तानाम् अनुसंधानं च जैनागमेषु प्रोक्तानां तत्त्वार्थानाम् अस्ति वैशिष्टयम् सुबोधिकाटीकायाः। 'हिन्दीविवेचनामृतम्' विलिख्य राष्ट्रभाषारसिकानां मनःप्रसूनानि सहसैव विकचीकृतानि । सरलतया तत्त्वार्थावगमाय भूरिशः प्रयासः कृतोऽनेनाचार्यप्रवरेण हिन्दी-पद्यानुवादादिभिः। एतेन श्रीतत्त्वार्थाधिगमसूत्रं प्रति सूरीश्वरस्य श्रद्धा-भक्तिनिष्ठा सहसैव स्फुटतामुपैति ।
सम्प्रति तत्रभवतां भवतां तत्त्वजिज्ञासूनां करकजेषु विलसतितराम् अजीवास्रवविवेचनस्वरूपम् । . अस्मिन् भागे तत्त्वार्थाधिगमसूत्रस्य द्वौ अध्यायौ पञ्चमषष्ठौ सुबोधिका-विवेचनामृताभ्यां सह हिन्दीपद्यानुवादसंवलितो ललितो विलसतः ।
चैतन्यरहितोऽजीवः। स च प्रकर्ता, अभोक्ता किन्तु अनाद्यनन्तः शाश्वतश्चेति । अस्य पञ्चभेदाः
(१) धर्मास्तिकायः, (२) अधर्मास्तिकायः, (३) प्राकाशास्तिकायः, (४) कालः, (५) पुद्गलास्तिकायः ।