SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ २० ] श्रीतत्त्वार्थाधिगमसूत्रे [ ६६ यद्यपि तीव्रभाव और मन्दभाव में जीव अधिकरण का समावेश हो जाता है, तो भी उसके विशेष भेद बताने के लिए यहाँ पर भाव अधिकरण रूप में जीव का ग्रहण किया है ।। ६-८ ।। * जीवाधिकरणस्य अष्टोत्तरशतभेदाः मूलसूत्रम् श्राद्यं संरम्भ-समारम्भा -ऽऽरम्भ- योगकृत-कारिताऽनुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ।। ६-६ ॥ * सुबोधिका टीका * प्राणव्यपरोपणादि कर्मणि कृतावेश: संरम्भः, तत्क्रिया साधनाभ्यासः समारम्भः, क्रियाद्याप्रवृत्तिरारम्भः । श्राद्यसूत्रेऽधिकरणस्य द्वौ भेदो इत्याह, तत्समासतस्त्रिविधम् । तच्च संरम्भः, समारम्भः, प्रारम्भः, एतत् पुनः एकशः कायवाक्मनोयोगविशेषात् त्रिविधं भवति । यथा कायसंरम्भः, वाक्संरम्भः, मनः संरम्भः, कायसमारम्भ:, वाक्समारम्भः, मनः समारम्भ:, कायारम्भः, वागारम्भः मनप्रारम्भ इति । एतदपि एकशः कृतकारितानुमतविशेषात् त्रिविधं भवति । तद्यथा - कृतकायसंरम्भः, कारितकाय संरम्भः, अनुमतकायसंरम्भः कृतवाक्संरम्भः कारितवाक्संरम्भः, अनुमतवाक्संरम्भः कृतमनः संरम्भः कारितमनः संरम्भः अनुमतमनः संरम्भ:, एवं समारम्भारम्भावपि । तदपि पुनः एकशः कषायविशेषात् चतुविधम्, यथाक्रमेणेतिक्रोधकृत काय संरम्भः, मानकृतकायसंरम्भः, मायाकृतकायसंरम्भः, लोभकृतकायसंरम्भः, क्रोधकारितकायसंरम्भः, मानकारितकाय संरम्भः, मायाकारितकायसंरम्भः, लोभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः, मानानुमतकायसंरम्भः, मायानुमतकाय संरम्भः, लोभानुमतकायसंरम्भः, एवं वाङ्मनोयोगाभ्यामपि ज्ञातव्यम् । तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनैकशः षट्त्रिंशत् विकल्पं भवति । त्रिविधमपि भ्रष्टोत्तरशतविकल्पानि भवन्ति । संरम्भः सकषायः, परितापनया भवेत् समारम्भः । प्रारम्भः प्राणिवधः, त्रिविधो योगस्ततो ज्ञेयः ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy