________________
३।१८ ] तृतीयोऽध्यायः
[ ५७ सूत्रं अभविष्यद् उभयत्र चोभे यथासंख्यं स्यातामिति । द्विविधा च एषां मनुष्यतिर्यग्योनिजानां जीवानां स्थितिः । एका भवस्थितिः, अन्या कायस्थितिश्च । मनुष्याणां यथोक्त त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थितिः । अर्थात् मनुष्यभवे जीवानां एकभवे स्थिति अन्तर्मुहूर्तात् न तु न्यूना तथा त्रिपल्योपमात् नाधिका।
कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि । तिर्यग् योनिजानां च यथोक्त समासतः परापरे भवस्थिती विज्ञेयेति ।
विशेषस्तु-शुद्धपृथिवीकायस्य उत्कृष्टस्थितिः द्वादशसहस्रवर्षाणि, खरपृथिवीकायस्य द्वाविंशतिसहस्रवर्षारिण, अप्कायस्य सप्तसहस्रवर्षाणि, वायुकायस्य त्रीणि सहस्रवर्षाणि, तेजःकायस्य त्रीणि रात्रिदिनानि, वनस्पतिकायस्य च दशसहस्रवर्षाणि सन्ति ।
एषामपि कायस्थितिः असंख्येयाः अवसपिण्युत्सपिण्यः । वनस्पतिकायस्य अनन्ताः । द्वीन्द्रियजीवानां भवस्थितिः द्वादशवर्षाणि, त्रीन्द्रियजीवानां एकोनपञ्चाशद् रात्रिदिनानि । चतुरिन्द्रियजीवानां षण्मासपर्यन्ताः । एषाञ्च कायस्थितिः संख्येयानि वर्षसहस्राणि ।
पञ्चेन्द्रियजीवाः तिर्यग्योनिजीवाश्च पञ्चविधाः । यथा-मत्स्याः उरगाः परिसर्पाः पक्षिणश्चतुष्पदा इति । तत्रापि मत्स्यानां उरगाणां भुजगानां च पूर्वकोट्यं व। पक्षिणां पल्योपमासंख्येयभागः। चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां जीवानां स्थितिः जायते। तत्रापि मत्स्यजीवानां भवस्थितिः पूर्वकोटिः त्रिपंचाशदुरगाणां द्विचत्वारिंशद् भुजगानां द्विसप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मूछितानां जीवानां भवस्थितिः । एषाञ्च कायस्थितिः सप्ताष्टौ भवग्रहणानि ।
सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थितिस्तु जघन्यप्रमाणान्तर्मुहूर्तमात्रमेव भवति ।। ३-१८ ॥