________________
३।११
]
तृतीयोऽध्यायः
[ ३७
योजनानि, विदेहपर्वतस्य च प्रमाणं ३३६८४ योजनानि सन्ति । पञ्चविंशतियोजनानि अवगाढो योजनशतोच्छायो हिमवान् ।
भरतक्षेत्रस्य प्रमाणं त्रिभिः ज्ञेयम् । ज्येषुधनुकाष्ठैः हिमवतः संलग्ना ज्येवरेखा ज्या कथ्यते । तस्य प्रमाणं चतुर्दशसहस्राणि चत्वारि शतान्येकसप्ततीनि षट् च भागा विशेषतो ज्या। इषुर्यथोक्तो विष्कम्भः । धनुकाष्ठं चतुर्दशसहस्राणि शतानि पञ्चाष्टविंशानि एकादश च भागाः साधिकाः ।।
भरतक्षेत्रमध्ये पूर्वापरायतः उभयतः समुद्रमवगाढो वैताढ्यपर्वतः षड्योजनानि सक्रोशानि धरणिमवगाढः पञ्चाशद्विस्तरतः पञ्चविंशत्युच्छ्रितः। तस्य विजया/ति अन्यदपि नाम । अन्यदपि विदेहेषु निषधस्योत्तरतः मन्दरस्य दक्षिणतः देवकुरोत्तरकुरू द्वौ क्षेत्रौ। सर्वदैवभोगभूमिरेषा। तत्रापि निषधस्योत्तरतः मेरोः दक्षिणतः देवकुरु विद्यते। अनेकानेक-काञ्चन-पर्वतैः शोभायमानः तस्य च पञ्चसरोवराण्यभितः दशदशसुवर्णपर्वताः । चित्रकूटेन विचित्रकूटेन चोपशोभिताः देवकुरवः विष्कम्भेण एकादशयोजनसहस्राणि अष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ (११८००३)। एवमेवोत्तरेणोत्तरा: कुटवश्चित्रकूटविचित्रकूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः ।
___ यद्यपि जम्बूद्वीपस्य मध्ये निषधनीलयोः अन्तराले सामान्यतः एकमेव विदेहक्षेत्रम्, तथापि विदेहा मन्दरदेवकुरु-उत्तरकुरुभिः विभक्ताः क्षेत्रान्तरवत् भवन्ति । पूर्वे चापरे च, पूर्वेषु षोडशचक्रवत्तिविजयानदी पर्वतैः विभक्ताश्च परस्परागमाः अपरेऽपि एवं लक्षणा षोडशैव ।
दक्षिणोत्तरौ वैताढयौ हिमाच्छादितौ महाहिमवत् रुक्मिणौ निषधनीलौ च अर्थात् विदेहतोत्तराः पर्वताः समानाः। यथा भरत-ऐरावतयोः प्रमाणं परस्परं तुल्यमिति । तथैव दक्षिणोत्तरौ वैताढयौ पायामविष्कम्भावगाहोच्छायेषु समानौ । क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीखण्डकपुष्कराधका महामन्दरात् पञ्चदशभिः योजनसहस्रः हीनोच्छायाः । षड्भिः योजनशतैः पृथिवीतले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरवत् तुल्यम् । द्वितीयञ्च काण्डं सप्तभिः होनम्, तृतीयकाण्डमपि अष्टाभिः हीनमस्ति । भद्रशालनन्दनवने महामन्दरवत् । ततः अर्धषट् पञ्चाशद् योजनसहस्राणि सौमनसवनं पञ्चशतं विस्तृतमेव । ततः अष्टाविंशतिसहस्राणि