________________
१८]
श्री तत्त्वार्थाधिगमसूत्रे
[ ३५
तानि दुःखानि अपि जायन्ते । पूर्वजन्मनि संक्लिष्टासुरोदीरितदुःखाश्च नारकाः जायन्ते । यथाचाम्बाम्बरीषश्यामशबलरुद्रोपरुद्रकाल महाकालस्यासिपत्रवनकुम्भीवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मनि संक्लिष्टकर्माणः पापाभिरतय श्रासुरीं गतिं प्राप्य कर्मक्लेशानुभवन्ति । एते च ताच्छील्यात् नारकारणां वेदनाः समुदीरयन्ति चित्राभिरुपपत्तिभिः । यथा च ते प्रतप्तलोहरसपायननिष्टप्तायः स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतरणायोधनाभि
लोहकुम्भपाकाम्बरीषतर्जनयन्त्र
घातवासीक्षुरतक्षणक्षारतप्ततैलाभिषेचनादिभिश्च
पीडनायः शूलशलाकादिभिः भेदन- क्रकचपाटनाङ्गारदहनवाहनासूची शाद्वलापकर्षणैः संत्रस्यमानाः सिंह- व्याघ्रद्वीपिश्वशृगालवृककोक मार्जारनकुलसर्पवाय सगृध्रकाकोलूकश्येनादिखादनैः तथा च प्रतप्तवालुकावतरणासिपत्रवनप्रवेशन- वैतरण्यवतारण परस्परघाताभिघातमल्लक्रियायुद्धादिभिः दुःखानि अनुभूयन्ते पीडयन्ते च । एते उपर्युक्ताः अम्बाम्बरीषादि पञ्चदशजातीनां जीवा एव श्रसुरकुमाराः कथमेतद्- किं प्रयोजनं सिध्यति अत्रासुरकुमाराणाम् ? उच्यतेऽत्र । पापकर्माभिरताः एते कुमाराः । तद्यथागो-वृषभ- महिष-वराह- मेष - कुक्कुट - वार्तका - लावकान्मुष्टिमल्लाच परस्परं युध्यमानां पश्यतामेव चाभिघातः रागद्वेषाभिभूतानां प्रकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते । तथा च तेषां प्रसुराणां नारकांस्तथा तानि कारयतां श्रन्योन्यं घ्नतश्च पश्यतां परा सन्तुष्टि प्रीतिश्व अनुभूयते । ते हि दुष्टकन्दर्पांस्तथाभूतान् दृष्ट्वा भयङ्कराट्टहासं कुर्वन्ति चेलोत्क्षेपान्क्ष्वेडितास्फोटितावल्लिते तलतालनिपातनां च मुञ्चन्ति प्रतिभयङ्करं सिंहनादमपि कुर्वन्ति तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रतिकार मायानिदान मिथ्यादर्शनशल्य तीव्रकषायोपहतस्यानालोचित भावदोषस्याप्रत्यवमर्षस्या कुशलानुबन्धि- पुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं यत् सत्स्वप्यन्येषु प्रीतिहेतुषु अशुभा एव प्रीतिहेतवः समुत्पद्यन्ते ।
अत्र समुत्पद्यते जिज्ञासा यत् एतादृशैः नानातीत्राघातैश्च यन्त्रपीडनेऽपि किमर्थं तेषां शरीरं विशीर्णनैव भवति । किमर्थं तेषां शरीराणि मृत्युं नैव प्राप्नुवन्ति ? अत्राह
एवं निरन्तरं सुतीव्रं दुःखमनुभवतां मरणमेव काङ्क्षतां तेषां न विपत्तिरकाले विद्यते कर्माभिर्धारितायुषाम् । प्रोक्तं वै - "प्रोपपातिक चरम देहोत्तम पुरुषा संख्येय वर्षायुषोsनपवर्त्यायुषः" इति । नैव तत्र शरणं विद्यते नाप्यपक्रमरणम् । ततः