SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २२ ] श्रीतत्त्वार्थाधिगमसूत्रे [ ४१२ [६] मनोरमाः, [७] महावेगाः, [८] महेश्वक्षाः, [६] मेरुकान्ताः, [१०] भास्वन्तश्चेति । * गान्धर्वाः अपि द्वादशविधाः भवन्ति । यथा ते-[१] हाहा, [२] हूहू, [३] तुम्बुरवः, [४] नारदाः, [५] ऋषिवादिकाः, [६] भूतवादिकाः, [७] कादम्बाः, [८] महाकादम्बाः, [६] रैवताः, [१०] विश्वावसवः, [११] गीतरतयः, [१२] गीतयशसश्चेति । * यक्षाः अपि त्रयोदशविधाः भवन्ति । तद्यथा-[१] पूर्णभद्राः, [२] माणिभद्राः, [३] श्वेतभद्राः, [४] हरिभद्राः, [५] सुमनोभद्राः, [६] व्यतिपातिकभद्राः, [७] सुभद्राः, [८] सर्वतोभद्राः, [६] मनुष्ययक्षाः, [१०] वनाधिपतयः, [११] वनाहाराः, [१२] रूपयक्षाः, [१३] यक्षोत्तमाश्चेति । * राक्षसाः सप्तविधाः भवन्ति । तद्यथा-[१] भीमाः, [२] महाभीमाः, [३] विघ्नाः, [४] विनायकाः, [५] जलराक्षसाः, [६] राक्षसराक्षसाः, [७] ब्रह्मराक्षसाश्चेति । 8 भूताः नवविधाः भवन्ति । तद्यथा-[१] सुरूपाः, [२] प्रतिरूपाः, [३] अतिरूपाः, [४] भूतोत्तमाः, [५] स्कन्दिकाः, [६] महास्कन्दिकाः, [७] महावेगाः, [८] प्रतिच्छन्नाः, [६] आकाशगाश्चेति । * पिशाचाः पञ्चदशभेदाः भवन्ति । तद्यथा-[१] कूष्माण्डाः, [२] पटकाः, [३] जोषाः, [४] अाह्नकाः, [५] कालाः, [६] महाकालाः, [७] चौक्षाः, [८] अचौक्षाः, [६] तालपिशाचाः, [१०] मुखरपिशाचाः, [११] अधस्तारकाः, [१२] देहाः, [१३] महाविदेहाः, [१४] तृष्णीकाः, वनपिशाचाश्चेति । तेषां अष्टानामनुक्रमतः विक्रियाध्वजलक्ष्माः भाष्यन्ते । तेषु किन्नराः प्रियङ्गमणिरिव श्यामाः सौम्याः सौम्यदर्शनाः भवन्ति । मुखेषु अत्यधिकरूपशोभामुकुटमौलिभूषणाः अशोकवृक्षध्वजाः अवदाताः भवन्ति । किम्पुरुषाः उरुबाहुषु शोभमानाः मुखभास्वराः विविधाभरणाभूषितचित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः भवन्ति ।
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy