________________
४११२
]
चतुर्थोऽध्यायः
[ २१
व्यन्तरनिकायस्य प्रष्ट मेवानां नामानि *
卐 मूलसूत्रम्व्यन्तराः किन्नर-किंपुरुष-महोरग-गन्धर्व-यक्ष-राक्षस
भूत-पिशाचाः ॥ ४-१२॥
* सुबोधिका टीका * द्वितीयो देवनिकायः अष्टविधः । अस्य च एतानि अष्टविधनामानि भवन्ति । तथाहि-किन्नरः [१], किम्पुरुषः [२], महोरगः [३], गन्धर्वः [४], यक्षः (५), राक्षसः [६], भूतः [७], पिशाचश्च [८] इति । किमयमेते व्यन्तराः ? विविविधं अन्तरं निवासं येषां ते व्यन्तराः, अथवा विगतः अन्तरः यस्य सः व्यन्तरः ।
अधस्तिर्यगूज़ च त्रिष्वपि लोकेषु भवननगरेषु आवासेषु च प्रतिवसन्ति । यस्माच्च अधस्तिर्यग्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात् पराभियोगात् च प्रायेण प्रतियान्ति अनियतगतिप्रचारा मनुष्यानपि केचिद् भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इति उच्यन्ते । मनुष्यावशिष्टताऽपि प्राप्यते व्यन्तरेषु । यद्वा गोवद्रुढ्या द्वितीयदेवनिकायाः व्यन्तरेति व्यवह्रियते ।
व्यन्तराणामष्टभेदाः, तेषु प्राद्यः किन्नरः ।
* तत्र किन्नराः अपि दशविधाः भवन्ति । तद्यथा-[१] किन्नराः, [२] किम्पुरुषाः, [३] किम्पुरुषोत्तमाः, [४] किन्नरोत्तमाः, [५] हृदयंगमाः , [६] रूपशालिनः, [७] अनिन्दिताः, [८] मनोरमाः, [६] रतिप्रियाः, [१०] रतिश्रेष्ठाश्चेति ।
* तत्र च किम्पुरुषाः अपि दशविधाः सन्ति । ते च-[१] पुरुषाः , [२] सत्पुरुषाः, [३] महापुरुषाः, [४] पुरुषवृषभाः, [५] पुरुषोत्तमाः, [६] अतिपुरुषाः, [७] मरुदेवाः, [८] मरुतः, [६] मेरुप्रभाः, [१०] यशस्वन्तश्चेति ।
* महोरगाः अपि दशविधाः भवन्ति । यथानुक्रमतः-[१] भजगाः, [२] भोगशालिनः, [३] महाकायाः, [४] अतिकायाः, [५] स्कन्धशालिनः,