SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ फू श्रीतत्त्वार्थाधिगमसूत्रम् । तस्यायं चतुर्थोऽध्यायः w卐॥ अधोलोक-मध्यलोकयोः वर्णनं तृतीयेऽध्याये कृतं, चतुर्थेऽध्याये तु ऊर्ध्वलोकस्य वर्णनमत्र क्रियते । * देवानां भेदाः ॐ मूलसूत्रम् देवाश्चतुनिकायाः ॥४-१॥ * सुबोधिका टीका * यदा देवाः अधोलोके मध्यलोकेऽपि च निवसन्ति तदा ऊर्ध्वलोक एव देवानां आवासभूमिः कथम् ? अत्रोच्यते देवाश्चतुनिकायाः भवन्ति । ते चानुक्रमतः भवनवासी-व्यन्तर-ज्योतिषी-वैमानिकाः। भवनवासी अधोलोके, व्यन्तर-ज्योतिषाश्च तिर्यग्लोके भवन्ति । किन्तु तेषु देवेषु वैमानिकदेवाः प्रधानदेवाः सन्ति । ते च ऊर्ध्वलोके भवन्ति । के देवाः ? दिव्यन्तीति देवाः । अन्यच्च क्रीडाविजिगीषा-व्यवहार-द्य ति-स्तुति-मोद-मद-स्वप्नकान्ति-गतीनामर्थे व्यवहियते दिव् धातुः । देवगतिनामकर्मोदयो देवक्रीडासक्तः क्षुधा-पिपासारहितः, तस्य बपुः रस-रक्तादि रहितः, दीप्तिमन्तो देवाः । शीघ्रचपलगतियुक्तदेवः । देवानां स्वरूपवर्णनं कृतञ्च, तेषां चत्वार निकायाः अपि वर्णिताः। किन्तु ते देवा इन्द्रियः न प्रत्यक्षाः तर्हि तेषामस्तित्वविषये सन्देहः क्रियते । अत्रोच्यते, देवगतेः एकदेशप्रत्यक्षीभूतेन शेषापि अनुमानप्रमाणेन ज्ञायन्ते । यत् चतुनिकायेषु ज्योतिष्कदेवाः प्रत्यक्षाः सन्ति ।। ४-१ ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy