________________
प्रथमोऽध्यायः
NE
voywww
* पञ्चज्ञानं नयं निक्षेपञ्च वर्णनम् * श्रीसर्वज्ञविभुना जिनेश्वर-तीर्थङ्करदेवेन अर्थरूपेण कथितं, सूत्ररूपेण श्रुतकेवलीश्रीगणधरभगवन्तेन गुम्फितं च यद् शास्त्रं तद् आगमशास्त्रमेवेति जैनदर्शनेन । एतद् आगमशास्त्रमवलोकय पूर्वधर-परमर्षिश्रीउमास्वातिनाम्ना वाचकप्रवरेण सिद्धान्तागमशास्त्रस्य साररूपमिदं 'श्रीतत्त्वार्थाधिगमसूत्र' नामक ग्रन्थं सम्यगविरचितमिति । तस्य दशाध्यायाः सन्ति । तेषु प्रथमोऽध्यायोऽत्र विमृश्यते । अत्र प्रथमाऽध्याये प्रथमसूत्रमिदम्'सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः ॥१॥
* सुबोधिका टीका * सम्यग्दर्शनं च ज्ञानं च चारित्रं च एतानि सम्यग्दर्शन-ज्ञान-चारित्राणि । मोक्षस्य मार्गः मोक्षमार्गः। सम्यग्दर्शनं, सम्यग्ज्ञानं, सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः । एतानि च निखिलानि मोक्षसाधनानि, न तु न्यूनानि । त्रीण्येव संमिलने सति मोक्षस्य मार्गः साधनः एवेत्यर्थः । एकस्याऽभावेऽपि असाधनानि इत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वलाभे सति भजनीयमुत्तरम्, किन्तु उत्तरलाभे तु पूर्वलाभो नियतरेव ज्ञेयः । अर्थात् सम्यग्दर्शनं, सम्यग्ज्ञानं तथा सम्यक्चारित्रं मोक्षमार्गो भवति । एतानि त्रीणि संहितान्येव मोक्षस्य साधनं जायते, नत्वन्यथा। एतेषु एकस्याप्यभावे मोक्षसाधनं नैव भवितुमर्हति । एतेषु प्रथमस्य (पूर्वस्याप्राप्तौ सत्यां तत्पश्चाद्भवस्य परस्य) प्राप्तिर्भवेद् वा न भवेत्, किन्तु परस्य प्राप्तौ सत्यां पूर्वस्य ज्ञानमवश्यंभावि । अर्थात्-दर्शनस्य ज्ञाने सत्यपि ज्ञानस्य चारित्रस्य वा ज्ञानं निश्चयेन न जायते । एवमेव ज्ञानस्य प्राप्तौ सत्यामपि चारित्रस्य प्राप्तिनिश्चयेन न भवति, किन्तु चारित्रस्योपलब्धौ सत्यां तत्पूर्वयोर्दर्शन-ज्ञानयोः प्राप्तिर्जायते एव, एवं ज्ञानोपलब्धौ